आपोमयी प्लावयन्ती ब्रह्मणो विमला जटाः
ब्रह्मणे तां निवेद्यैवं तामप्याह प्रजापतिः यथा मन्नामसंयुक्तो महिषघ्नो भविष्यति
या मद्वाक्यमलङ्घ्यं वै सुरैर्लङ्घयसे बलात्
या मद्वाक्यमलङ्घ्यं वै सुरैर्लङ्घयसे बलात्
प्रतीच्छत् कृत्तिकायोगं शैलेया विग्रहं दृढम्
तपसो वारयमास उमेत्येवाब्रवीच्च सा
उमेत्येव हि कन्यायाः सा जगाम तपोवनम्
रुद्रं चेतसि संधाय तपस्तेपे सुदुष्करम्
इहानयध्वं तां कालीं तपस्यन्तीं हिमालये
तेजसा विजितास्तस्या न शेकुरुपसर्पितुम्
ब्रह्मणो ऽधिकतेजो ऽस्या विनिवेद्य प्रतिष्ठितः
यूयं यत्तेजसा नूनं विक्षिप्तास्तु हतप्रभाः
सतारकं हि महिषं विदध्वं निहतं रणे
जग्मुः स्वान्येव धिष्ण्यानि सद्यो वै विगतज्वराः
निवर्त्य तपसस्तस्मात् सदारो ह्यनयद्गृहान्
विचचार महाशैलान् सेरुप्राग्र्यान् महामतिः
तेनार्चितः श्रद्धयासौ तां रात्रिमवसद्धरः
इहैव तिष्ठस्व विभो तपःसाधनाकारणात्
तस्थावाश्रममाश्रित्य त्यक्त्वा वासं निराश्रयम्
तं देशमगमत् काली गिरिराजसुता शुभा
स्वागतेनाभिसंपूज्य तस्थौ योगरतो हरः
ववन्दे चरणौ शौवौ सखीभिः सह भामिनी
न युक्तं चैवमुक्त्वाथ सगणो ऽन्तर्दधे ततः
अन्तर्दुःखेन दह्यन्ती पितरं प्राह पार्वती
आराधनाय देवस्य शङ्करस्य पिनाकिनः
ललिताख्या तपस्तेपे हराराधनाकाम्यया
समित्कुशफलं चापि मूलाहरणमादितः
कृतस्तु तेजसा युक्तो भद्रमस्त्विति साब्रवीत्
ततो ऽस्यास्तुष्टिमगमच्छ्रद्धया त्रिपुरान्तकृत्
यज्ञोपवीती छत्री च मृगाजिनधरस्तथा