स्नातुं न यच्छन्ति महोग्ररूपास्तवन्यस्य भूताः सचराचराणाम्
पुण्या नदी प्राङ्मुखतां प्रयाता यत्रौघयुक्तस्य शुभा जताढ्या
मही जलं वह्निसमीरमेव खं त्वेवमादौ विबभौ पृथूदकः
संनिर्मितानीह महाभुजेन तच्चैक्यमागात् सलिलं महीषु
तं गच्छध्वं महातीर्थं यावत् संनिधिवोधितम्
तिष्ठन्ति सा तिथिः पुण्या त्वक्षया परिगीयते
पितॄन् आराधयध्वं हि तत्र श्राद्धेन भक्तिततः
समाजग्मुः कुरुक्षेत्रे पुण्यतीर्थं पृथूदकम्
पुण्यां तिथिं पापहरां तव कालो ऽयमागतः
त्वदायत्तं गुरो कार्यं सुराणां तत् कुरुष्व च
यदि वर्षाधिपो ऽहं स्यां ततो यास्यामि देवताः
तस्यां पुरन्दरः प्रीतः पिण्डं पितृषु भक्तितः
ततः प्रीतास्तु पितरस्तां प्राहुस्तनयां निजाम
प्रीतिमानभवच्चासौ रराम च यथेच्छया
अजीजनत् सा तनयाश्च तिस्रो रूपातियुक्ताः सुरयोषितोपमाः
सुनाभ इति च ख्यातश्चतुर्थस्तनयो ऽभवत्
रागिणि नाम संजाता ज्येष्ठा मेनासुता मुने
श्वेतमाल्याम्बरधरा कुटिला नाम चापरा
रूपेणानुपमा काली जघन्या मेनकासुता
कर्तुं तपः प्रयातास्ता देवास्ता ददृशुः शुभाः
कुटिला ब३ह्मलोकं तु नीता शशिकरप्रभा
पुत्रं महिषहन्तारं ब्रह्मन् व्याख्यातुमर्हसि
शार्वं धारयितुं तेजो वराकी मुच्यातां त्वियम्
तथा यतिष्ये भगवन् यता शार्वं सुदुर्द्धरम्
तपसाहं सुतप्तेन समाराध्य जनार्दनम्
तथा देव करिष्यामि सत्यं सत्यं मयोदितम्
भगवानादिकृद् ब्रह्मा सर्वेशो ऽपि महामुन्
तस्मान्मच्छापनिर्दग्धा सर्वा आपो भविष्यसि
आपोमयी ब्रह्मलोकं प्लावयामास वेगिनी
ऋक्सामाथर्वयजुभिर्वाङ्मयैर्बन्धनैर्दृढम्