वरदो ऽस्मीत्यथेत्युक्ते कुरुर्वरमयाचत
स्नातानां च मृतानां च महापुण्यफलं त्विह
होमयज्ञादिकं चान्यच्छुभं वाप्यशुभं विभो
अक्षयं प्रवरे क्षेत्रे भवत्वत्र महाफलम्
इत्येवमुक्तस्तेनाहं राज्ञा बाढमुवाच तम्
तथान्तकाले मामेव लयटमेष्यसि सुव्रत
तत्रैव याजका यज्ञान् यजिष्यन्ति सहस्रशः
यक्षं च चन्द्रनामानं वासुकिं चापि पन्नगम्
अजावनं च नृपतिं महोदेवं च पावकम्
अमीषां बलिनो ऽन्ये च भृत्याश्चैवानुयायिनः
स्नातुं न यच्छन्ति महोग्ररूपास्तवन्यस्य भूताः सचराचराणाम्
पुण्या नदी प्राङ्मुखतां प्रयाता यत्रौघयुक्तस्य शुभा जताढ्या
मही जलं वह्निसमीरमेव खं त्वेवमादौ विबभौ पृथूदकः
संनिर्मितानीह महाभुजेन तच्चैक्यमागात् सलिलं महीषु
तं गच्छध्वं महातीर्थं यावत् संनिधिवोधितम्
तिष्ठन्ति सा तिथिः पुण्या त्वक्षया परिगीयते
पितॄन् आराधयध्वं हि तत्र श्राद्धेन भक्तिततः
समाजग्मुः कुरुक्षेत्रे पुण्यतीर्थं पृथूदकम्
पुण्यां तिथिं पापहरां तव कालो ऽयमागतः
त्वदायत्तं गुरो कार्यं सुराणां तत् कुरुष्व च
यदि वर्षाधिपो ऽहं स्यां ततो यास्यामि देवताः
तस्यां पुरन्दरः प्रीतः पिण्डं पितृषु भक्तितः
ततः प्रीतास्तु पितरस्तां प्राहुस्तनयां निजाम
प्रीतिमानभवच्चासौ रराम च यथेच्छया
अजीजनत् सा तनयाश्च तिस्रो रूपातियुक्ताः सुरयोषितोपमाः
सुनाभ इति च ख्यातश्चतुर्थस्तनयो ऽभवत्
रागिणि नाम संजाता ज्येष्ठा मेनासुता मुने
श्वेतमाल्याम्बरधरा कुटिला नाम चापरा
रूपेणानुपमा काली जघन्या मेनकासुता
कर्तुं तपः प्रयातास्ता देवास्ता ददृशुः शुभाः