तदासाद्य सुसंतुष्टो विवेशाभ्यान्तरं ततः
प्लक्षजां ब्रह्मणः पुत्रीं हरिजिह्वां सरस्वतीम्
स्थितां भगवतीं कूले तीर्थकोटिभिराप्लुताम्
समाजगाम च पुनः ब्रह्मणो वेदिमुत्तराम्
आकमन्ताद् योजनानि पञ्च च सर्वतः
येनोत्तरतया वेदिर्गादिता सर्वपञ्चका
यासु यष्टं सुरेशेन लोकनाथेन शंभुना
विरजा दक्षिणा वेदिरनन्तफलदायिनी
समन्तपञ्चका चोक्ता वेदिरेवोत्तराव्यया
करिष्यामि कृषिष्यामि सर्वान् कामान् यथेप्सितान्
चक्रे कीर्त्यर्थमतुलं संस्थानं पार्थिवर्षभः पौण्ड्रकं याम्यमहिषं स्वयं कर्षितुमुद्यतः
प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः
प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः
कृषामि शौचं दानं च योगं च ब्रह्मचारिताम्
लब्धो ऽष्टाङ्गेति सहसा अवहस्य गतस्ततः
कृषते ऽन्यान् समन्ताच्च सप्तक्रोशान् महीपतिः
तदाष्टाङ्गं महाधर्मं समाख्यातं नृपेण हि
देह्यहं वापयिष्यामि सीरं कृषतु वै भवान्
प्रसृतं तं भुजं दृष्ट्वा मया चक्रेण वेगतः
ततः सव्यो भुजो राज्ञा दत्तश् छिन्नो ऽप्यसौ मया
वरदो ऽस्मीत्यथेत्युक्ते कुरुर्वरमयाचत
स्नातानां च मृतानां च महापुण्यफलं त्विह
होमयज्ञादिकं चान्यच्छुभं वाप्यशुभं विभो
अक्षयं प्रवरे क्षेत्रे भवत्वत्र महाफलम्
इत्येवमुक्तस्तेनाहं राज्ञा बाढमुवाच तम्
तथान्तकाले मामेव लयटमेष्यसि सुव्रत
तत्रैव याजका यज्ञान् यजिष्यन्ति सहस्रशः
यक्षं च चन्द्रनामानं वासुकिं चापि पन्नगम्
अजावनं च नृपतिं महोदेवं च पावकम्
अमीषां बलिनो ऽन्ये च भृत्याश्चैवानुयायिनः