नवाब्दिकस्य व्रतबन्धनं च वेदे च शास्त्रे विधिपारगो ऽबूत्
ख्यातः पृथिव्यां पुरुषोत्तमो ऽसौ नाम्ना कुरुः संवरणस्य पुत्रः
दारक्रियार्थमकरोद् यत्नं शुभकुले ततः
कुरोरर्थाय वतवान् स प्रादात् कुरवे ऽपि ताम्
रेमे तन्व्या सह तया पौलोम्या मघवानिव
विदित्वा योवराज्याय विधानेनाभ्यषेचयत्
पालयामास स महीं पुत्रवच्च स्वयं प्रजाः
स सर्वपालकश्चासीत् प्रजापालो महाबलः
यावत्कीर्तिः सुसंस्था हि तावद्वासः सुरैः सह
विचचार महीं सर्वां कीर्त्यर्थं तु नराधिपः
तदासाद्य सुसंतुष्टो विवेशाभ्यान्तरं ततः
प्लक्षजां ब्रह्मणः पुत्रीं हरिजिह्वां सरस्वतीम्
स्थितां भगवतीं कूले तीर्थकोटिभिराप्लुताम्
समाजगाम च पुनः ब्रह्मणो वेदिमुत्तराम्
आकमन्ताद् योजनानि पञ्च च सर्वतः
येनोत्तरतया वेदिर्गादिता सर्वपञ्चका
यासु यष्टं सुरेशेन लोकनाथेन शंभुना
विरजा दक्षिणा वेदिरनन्तफलदायिनी
समन्तपञ्चका चोक्ता वेदिरेवोत्तराव्यया
करिष्यामि कृषिष्यामि सर्वान् कामान् यथेप्सितान्
चक्रे कीर्त्यर्थमतुलं संस्थानं पार्थिवर्षभः पौण्ड्रकं याम्यमहिषं स्वयं कर्षितुमुद्यतः
प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः
प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः
कृषामि शौचं दानं च योगं च ब्रह्मचारिताम्
लब्धो ऽष्टाङ्गेति सहसा अवहस्य गतस्ततः
कृषते ऽन्यान् समन्ताच्च सप्तक्रोशान् महीपतिः
तदाष्टाङ्गं महाधर्मं समाख्यातं नृपेण हि
देह्यहं वापयिष्यामि सीरं कृषतु वै भवान्
प्रसृतं तं भुजं दृष्ट्वा मया चक्रेण वेगतः
ततः सव्यो भुजो राज्ञा दत्तश् छिन्नो ऽप्यसौ मया