वृतः स भर्ता भगवान् हि पूर्वं तं राजपुत्रं भुवि संविचिन्त्य
नेहान्यकामां प्रवदन्ति सन्तो दातुं तथान्यस्य विभो क्षमस्व
ज्ञात्वा च तत्रार्कसुतां सकामां मुदा युतो वाक्यमिदं जगाद
स एव चायाति ममाश्रमं वै ऋक्षात्मजः संवरणो हि नाम्ना
दृष्ट्वा वसिष्ठं प्रणिपत्य मूर्ध्ना स्थितस्त्वपश्यत् तपतीं नरेन्द्रः
पप्रच्छ केयं ललना द्विजेन्द्र स वारुणिः प्राह नराधिपेन्द्रम्
मया तवार्थाय दिवाकरो ऽर्थितः प्रादान्मया त्वाश्रममानिनिन्ये
इत्येवमुक्तो नृपतिः प्रहृष्टो जग्राह पाणिं विधिवत् तपत्याः
रराम तन्वी भवनोत्तमेषु यता महैन्द्रं दिवि दैत्यकन्या
स जातकर्मादिभिरेव संस्कृतो विवर्द्धताज्येन हुतो यथाग्निः
नवाब्दिकस्य व्रतबन्धनं च वेदे च शास्त्रे विधिपारगो ऽबूत्
ख्यातः पृथिव्यां पुरुषोत्तमो ऽसौ नाम्ना कुरुः संवरणस्य पुत्रः
दारक्रियार्थमकरोद् यत्नं शुभकुले ततः
कुरोरर्थाय वतवान् स प्रादात् कुरवे ऽपि ताम्
रेमे तन्व्या सह तया पौलोम्या मघवानिव
विदित्वा योवराज्याय विधानेनाभ्यषेचयत्
पालयामास स महीं पुत्रवच्च स्वयं प्रजाः
स सर्वपालकश्चासीत् प्रजापालो महाबलः
यावत्कीर्तिः सुसंस्था हि तावद्वासः सुरैः सह
विचचार महीं सर्वां कीर्त्यर्थं तु नराधिपः
तदासाद्य सुसंतुष्टो विवेशाभ्यान्तरं ततः
प्लक्षजां ब्रह्मणः पुत्रीं हरिजिह्वां सरस्वतीम्
स्थितां भगवतीं कूले तीर्थकोटिभिराप्लुताम्
समाजगाम च पुनः ब्रह्मणो वेदिमुत्तराम्
आकमन्ताद् योजनानि पञ्च च सर्वतः
येनोत्तरतया वेदिर्गादिता सर्वपञ्चका
यासु यष्टं सुरेशेन लोकनाथेन शंभुना
विरजा दक्षिणा वेदिरनन्तफलदायिनी
समन्तपञ्चका चोक्ता वेदिरेवोत्तराव्यया
करिष्यामि कृषिष्यामि सर्वान् कामान् यथेप्सितान्