उद्भवं तस्य तीर्थस्य भगवान् प्रब्रवीतु नः
यस्यां हि पितरो दिव्याः पूज्यास्माभिः प्रयन्ततः
कुरुक्षेत्रोद्भवं पुण्यं प्रोक्तवांस्तां तिथीमपि
कृस्यादौ समभवदृक्षात् संवरणो ऽवत्
बाल्ये ऽपि धर्मनिरतो मद्भक्तश्च सदाभवत्
स चास्याध्यापयामास साङ्गान् वेदानुदारधीः
सर्वकर्मसु निक्षिप्य वसिष्ठं तपसां निधिम्
वैभ्राजं स जगामाथ अथोन्मादनमभ्ययात्
अवितृपतः सुगन्धस्य समन्ताद् व्यचरद् वनम्
कह्लारपद्मकुमुदैः कमलेन्दीवरैरपि
तासां मध्ये ददर्शाथ कन्यां संवरणो ऽधिकाम्
जातः सा च तमीक्ष्यैव कामबाणातुराभवत्
राजा चलासनो भूम्यां निपपात तुरङ्गमात्
सिषिचुर्वारिणाभ्येत्य लब्धसंज्ञो ऽभवत् क्षणात्
ताभिराश्वासिता चापि मधुरैर्वचनाम्बुभिः
गतस्तु मेरुशिखरं कामचारी यथामरः
तदाप्रभृति नाश्नाति दिवा स्वपिति नो निशि
तपतीतापितं वीरं पार्थिवं तपसां निधिः
विवेश देवं तिग्मांशु ददर्श स्यन्दने स्थितम्
प्रतिप्रणमितश्चासौ भास्करेणाविशद् रथे
शोभते वारुणिः श्रीमान् द्वितीय इव भास्करः
पृष्टश्चागमने हेतुं प्रत्युवाच दिवाकरम्
सुतां संवरणस्यार्थे तस्य त्वं दातुमर्हसि
गृहागताय द्विजपुङ्गवाय राज्ञोर्ऽथतः संवरणस्य देवाः
सा चापि संस्मृत्य नृपात्मजं तं कृताञ्जलिर्वारुणिमाह देवी
दृष्टो ह्यरण्ये ऽमरगर्भतुल्यो नृपात्मजो लक्षणतो ऽभिजाने
कटिस्तथा सिंहकटिर्यथैव क्षामं च मध्यं त्रिबलीनिबद्धम्
हस्तौ तथा पद्मदलोद्भवाङ्कौ छत्राकृतिस्तस्य शिरो विभाति
दीर्घाश्च तस्याङ्गुलयः सुपर्वाः पद्भ्यां कराभ्यां दशनाश्च सुभ्राः
रक्तस्तथा पञ्चसु राजपुत्रः कृष्णश्चतुर्भिस्त्रिभिरानतो ऽपि