उमा नाम्ना च तस्याः सा कोशाञ्जाता तुकौशिकी
शुम्भं चैव निशुम्भं च वधिष्यति वरायुधैः
सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि
यथा हतवती शुम्भं निसुम्भं च महासुरम्
एतद् विस्तरतः सर्वं यथावद् वक्तुमर्हसि
शृणुष्वावहितो भूत्वा स्कन्दोत्पत्तिं च शाश्वतीम्
निराश्रयत्वमापन्नस्तपस्तप्तुं व्यवस्थितः
स चासीद् देवसेनानीर्दैत्यदर्फविनाशनः
दानवेन्द्रेण विक्रम्य महिषेण पराजिताः
श्वेत्दवीपे महाहंसं प्रपन्नाः शरणं हरिम्
विहस्य मेघगम्भीरं प्रोवाच पुरुषोत्तमः
येन सर्वे समेत्यैवं मम पार्श्वमुपागताः
तत्कुरुध्वं जयो येन समाश्रित्य भवेद्धि वः
अमीषां मानसी कन्या मेना नाम्नास्ति देवताः
प्रार्थयध्वं सतीं मेनां प्रालेयाद्रेरिहार्थतः
दक्षकोपाद् यया मुक्तं मलवज्जीवितं प्रियम्
स हनिष्यति दैत्येन्द्रं महिषं सपदानुगम्
तत्र पृथूदके तीर्थे पूज्यन्तां पितरो ऽव्ययः
जिहासतात्मनः सर्वे इत्थं वै क्रियतामिति
कृताञ्जलिपुटा भूत्वा पप्रच्छुः परम्श्वरम्
उद्भवं तस्य तीर्थस्य भगवान् प्रब्रवीतु नः
यस्यां हि पितरो दिव्याः पूज्यास्माभिः प्रयन्ततः
कुरुक्षेत्रोद्भवं पुण्यं प्रोक्तवांस्तां तिथीमपि
कृस्यादौ समभवदृक्षात् संवरणो ऽवत्
बाल्ये ऽपि धर्मनिरतो मद्भक्तश्च सदाभवत्
स चास्याध्यापयामास साङ्गान् वेदानुदारधीः
सर्वकर्मसु निक्षिप्य वसिष्ठं तपसां निधिम्
वैभ्राजं स जगामाथ अथोन्मादनमभ्ययात्
अवितृपतः सुगन्धस्य समन्ताद् व्यचरद् वनम्
कह्लारपद्मकुमुदैः कमलेन्दीवरैरपि