तथा तथा भूतगणा नृत्यन्ति च हस्न्ति च
अभ्यघ्नंस्तांश् च जग्राह केशेषु परमेश्वरी
ननर्त वीणां परिवादयन्ती पपौ च पानं जगतो जनित्री
विस्रस्तवस्त्रा व्यसवश्च जाताः ततस्तु तान् वीक्ष्य महासुरेन्द्रान्
तुण्डेन पुच्छेन तथोरसान्यान् निःश्वासवातेन च भूतसंघान्
दुद्राव सिंहं युधि हन्तुकामः ततो ऽम्बका क्रोधवशं जगाम
संक्षोभयययंस्तोयनिधीन् घनांश् च विध्वंसयन् प्राद्वताथ गुर्गाम्
करं प्रचिच्छेद च हस्तिनो ऽग्रं स चापि भृयो महिषो ऽभिजातः
शक्तिं प्रचिक्षेप हुताशदत्तां सा कुण्ठिताग्रा न्यपतनमार्षे
गदां समाविध्य धनेश्वरस्य क्षिप्तातु भग्ना न्यपतत् पृथिव्याम्
निरस्य तत्कोपितया च मुक्तो दण्डस्तु याम्यो बहुखण्डतां गतः
संत्यज्य सिंहं महिषासुरस्य दुर्गाधिरूढा सहसैव पृष्ठम्
सा चापि पद्भ्यां मृदुकोमलाभ्यां ममर्द तं क्लिन्नमिवाजिनं हि
ततो ऽस्य शूलेन बिबेद कण्ठं तस्मात् पुमान् खङ्गधरो विनिर्गतः
शिरः प्रचिच्छेद वरासिनास्य हाहाकृतं दैत्यबलं तदाभूत्
संताड्यमानाः प्रमथैर्भवान्याः पातलमेवाविविशुर्भयार्ताः
नारायणीं सर्वजगत्प्रतिष्ठां कात्यायनीं घोरमुखीं सुरूपाम्
भूयो भविष्याम्यमरार्थमेवमुक्त्वा सुरांस्तान् प्रविवेश दुर्गा
महत्कौतूहलं मे ऽद्य विस्तराद् ब्रह्मवित्तम
शुम्भासुरवधार्थाय लोकानां हितकाम्यया
उमा नाम्ना च तस्याः सा कोशाञ्जाता तुकौशिकी
शुम्भं चैव निशुम्भं च वधिष्यति वरायुधैः
सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि
यथा हतवती शुम्भं निसुम्भं च महासुरम्
एतद् विस्तरतः सर्वं यथावद् वक्तुमर्हसि
शृणुष्वावहितो भूत्वा स्कन्दोत्पत्तिं च शाश्वतीम्
निराश्रयत्वमापन्नस्तपस्तप्तुं व्यवस्थितः
स चासीद् देवसेनानीर्दैत्यदर्फविनाशनः
दानवेन्द्रेण विक्रम्य महिषेण पराजिताः
श्वेत्दवीपे महाहंसं प्रपन्नाः शरणं हरिम्