यस्यां मानमदौ पुंसां करिणां यौवनागमे
तारागणे ऽकुलीनत्वं गद्ये वृत्तच्युतिर्विभो
चन्द्रभूषितदेहाश्च यस्यां त्वमिव शङ्कर
वसते भवांल्लोलः सर्वपापहरो रविः
तत्र गत्वा सुरश्रेष्ठ पापमोक्षमवाप्स्यसि
जगाम वेगाद् गरुडो यथासौ वाराणसीं पापविमोचनाय
स्नात्वा च तीर्थेषु विमुक्तपापः स केशवं द्रष्टुमुपाजगाम
तवत्प्रसादाद् हृषीकेश ब्रह्महत्या क्षयं गता
कारणं वेद्मि न च तदेतन्मे वक्तुमर्हसि
विद्यते कारणं रुद्र तत्सर्वं कथयामि ते
एष तीर्थवरः पुण्यो देवगन्धर्वपूजितः
स्नातमात्रस्य चाद्यैव कपालं परिमोक्ष्यति
कपालमोचनेत्येवं तीर्थं चेदं भविष्यति
कपालमोचने सस्नौ वेदोस्तविधिना मुने
नाम्ना बभूवाथ कपालमोचनं तत्तीर्थवर्यं भगवत्प्रसादात्
अनेन कारणेनासौ दक्षेण न निमन्त्रितः
यज्ञे चार्हापि दुहिता दक्षेण न निमन्त्रिता
जया जगाम शैलेन्द्रं मन्दरं चारुकन्दरम्
किमर्थं विजया नागाज्जयन्ती चापराजिता
गता निमन्त्रिताः सर्वा मखे मातामहस्य ताः
अहं समागता द्रष्टुं त्वां तत्र गमनोत्सुका
नामन्त्रितासि तातेन उताहोस्विद् व्रजिष्यसि
मातृष्वसः शशाङ्कश्च सपत्नीको गतः क्रतुम्
निमन्त्रिताः क्रतौ सर्वे किं नासि त्वं निमन्त्रिता
मन्युनाभिप्लुता ब्रह्मन् पञ्चत्वमगमत् ततः
मुञ्चती वारि नेत्राभ्यां सस्वरं विललाप ह
आः किमेतदितीत्युक्त्वा जयाभ्याशमुपागतः
कृत्तां परशुना भूमौ श्लथाङ्गीं पतितां सतीम्
किमियं पतिता भूमौ निकृत्तेव लता सती
श्रत्वा मखस्था दक्षस्य भगिन्यः पतिभिः सह