कृतावथ गजेन्द्रेण गृहीतो मध्यतो हरिः
गतासुः सुञ्जरस्कन्धात् क्षिप्य दैव्यै निवेदितः
सव्येन पाणिना भ्राम्य वादयत् पहं यथा
हास्यात् समुद्भवंस्तस्या भूता नानाविधाद्भुताः
हयास्या महिषास्याश्च वराहवदनाः परे
नानावक्त्राक्षिचरणा नानायुधधरास्तथा
वादयन्त्यपरे तत्र स्तुवन्त्यन्ये तथाम्बिकाम्
शातयामास चाक्रम्य यथा सस्यं महाशनिः
चिक्षुरः सैन्यपालस्तु योधयामास देवताः
ववर्ष शरजालानि यथा मेघो वसुन्धराम्
सौवर्णपुङ्खानपराञ्शरान् जग्राह षोडश
हत्वा सारथिमेकेन ध्वजमेकेन चिच्छिदे
छिन्ने धनुषु खङ्गं च चर्म चादत्तवान् बली
शरैश्चतुर्भिश्चिच्छेद ततः शूलं समाददे
क्रोष्टुको मुदितो ऽरण्ये मृगराजवधूं यथा
शरैश्चिच्छद संक्रुद्धा न्यपतिन्निहतो ऽसुरः
समाद्रवत वेगेन करालास्यश्च दानवः
दुर्द्धरो दुर्मुखश्चैव बिडालनयनो ऽपरः
कात्यायनीमाद्रवन्त नानाशस्त्रास्त्रपाणयः
वादयामास हसती तथा डमरुकं वरम्
तथा तथा भूतगणा नृत्यन्ति च हस्न्ति च
अभ्यघ्नंस्तांश् च जग्राह केशेषु परमेश्वरी
ननर्त वीणां परिवादयन्ती पपौ च पानं जगतो जनित्री
विस्रस्तवस्त्रा व्यसवश्च जाताः ततस्तु तान् वीक्ष्य महासुरेन्द्रान्
तुण्डेन पुच्छेन तथोरसान्यान् निःश्वासवातेन च भूतसंघान्
दुद्राव सिंहं युधि हन्तुकामः ततो ऽम्बका क्रोधवशं जगाम
संक्षोभयययंस्तोयनिधीन् घनांश् च विध्वंसयन् प्राद्वताथ गुर्गाम्
करं प्रचिच्छेद च हस्तिनो ऽग्रं स चापि भृयो महिषो ऽभिजातः
शक्तिं प्रचिक्षेप हुताशदत्तां सा कुण्ठिताग्रा न्यपतनमार्षे
गदां समाविध्य धनेश्वरस्य क्षिप्तातु भग्ना न्यपतत् पृथिव्याम्