ऊचुर्वाक्यं महादेवीं वर्म ह्याबन्ध चाम्बिके
कवचं को ऽत्र संतिष्ठेत् ममाग्रे दानवाधमः
तदा रक्षार्थमस्यास्तु विष्णुपञ्जरमुक्तवान्
अवध्यं दैवतैः सर्वेर्महिषं प्रत्यपीयत्
प्रोक्तं तया चापि हि पादघातैर्निषूदितो ऽसौ महिषासुरेन्द्रः
कस्तस्य कुर्याद् युधि दर्फहानिं यस्य स्थितश्चेतसि चक्रपाणिः
सवाहनं हतवती तथा विस्तरतो वाद
विद्यामानेषु शस्त्रेषु यत्पद्भ्यां तममर्दयत्
वृत्तां देवयुगस्यादौ पुण्यां पापभयापहाम्
सगजाश्वरथो ब्रह्मन् दृष्टो देव्या यथेच्छया
ववर्ष शैलं धारौघैर्द्यैरिवाम्बुदवृष्टिभिः
क्रुद्धा भगवती वेगादाचकर्ष धनुर्वरम्
सुवर्णपृष्ठं विबभौ विद्युदम्बुधरेष्विव
गदया मुसलेनान्यांश्चर्मणान्यानपातयत्
विधुन्वन् केसरसटां निषूदयति दानवान्
लाङ्गलैर्दारितग्रीवा विनिकृत्ताः परश्वधैः
चेलुः पेतुश्च मम्लुश् च तत्यजुश्चापरे रणम्
कालरात्रिं मन्यमाना दुद्रुवुर्भयपीडिताः
दृष्ट्वाजगाम नमरो मत्तकुञ्जरसंस्थितः
त्रिशुलमपि सिंहाय प्राहिणोद् दानवो रणे
कृतावथ गजेन्द्रेण गृहीतो मध्यतो हरिः
गतासुः सुञ्जरस्कन्धात् क्षिप्य दैव्यै निवेदितः
सव्येन पाणिना भ्राम्य वादयत् पहं यथा
हास्यात् समुद्भवंस्तस्या भूता नानाविधाद्भुताः
हयास्या महिषास्याश्च वराहवदनाः परे
नानावक्त्राक्षिचरणा नानायुधधरास्तथा
वादयन्त्यपरे तत्र स्तुवन्त्यन्ये तथाम्बिकाम्
शातयामास चाक्रम्य यथा सस्यं महाशनिः
चिक्षुरः सैन्यपालस्तु योधयामास देवताः
ववर्ष शरजालानि यथा मेघो वसुन्धराम्