तस्यैव लावण्यगृहस्य मुद्रा कन्दर्पराज्ञा स्वयमेव दत्ता
मन्याम तं कामनराधिपस्य प्राकारगुप्तं नगरं सुदुर्गम्
आवासनार्थं मकरध्वजेन जनस्य देशाविव सन्निविष्टौ
सृष्ट्वा विधाता हि निरूपणाय श्रान्तस्तथा हस्ततले ददौ हि
आक्रम्य लोकानिव मिर्मिताया रूपार्जितस्यैव कृताधरौ हि
आज्ञापि ताभ्यां नखरत्नमाला नक्षत्रमाला गगने यथैव
दृष्ट्वा यथेष्टं न च विद्म का सा सुताथवा कस्यचिदेव बाला
गत्वात्थ विन्ध्यं स्वयमेव पश्य कुरुष्व यत् ते ऽभिमतं क्षमं च
चक्रे मतिं नात्र विचारमस्ति इत्येवमुक्त्वा महिषो ऽपि नास्ति
यस्मिन् यथायानि यतो ऽथविप्र स नीयते वा व्रजति स्वयं वा
उग्रायुधं चिक्षुररक्तबीजौ समादिदेशाथ महासुरेन्द्रः
आगम्य मूले शिविरं निवेश्य तस्थुश्च सञ्जा दनुनन्दनास्ते
मयस्य पुत्रो रिपुसैन्यमर्दी स दुन्दुभिर्दुन्दुभिनिःखनस्तु
कुमारि दूतो ऽस्मि महासुरस्य रम्भात्मजस्याप्रतिमस्य युद्धे
वाक्यं च यद्रम्भसुतो बभाषे वदस्व तत्सत्यमपेतमोहः
सुखोपविष्टः परमासने च रम्भात्मजेनोक्तमुवाच वाक्यम्
यथामरा हीनबलाः पृथिव्यां भ्रमान्ति युद्धे विजिता मया ते
इन्द्रो ऽस्मि रुद्रो ऽस्मि दिवाकरो ऽस्मि सर्वेषु लोक्ष्वधिपो ऽस्मि बाले
यो मां हि संग्राममुपेयिवांस्तु भूतो न यक्षो न जिजीविषुर्यः
स्रावणि मामद्य समागतानि वीर्यार्जितानीह विशालनेत्रे
तस्माद् भजस्वेह जगत्पतिं मां पतिस्तवार्हे ऽस्मि विभुः प्रभुश्च
सत्यं प्रभुर्दानवराट् पृथिव्यां सत्यं च युद्धे विजितामराश्च
तं चेत् प्रदद्यान्महिषो ममाद्य भजामि सत्येन पतिं हयारिम्
दद्यात्स्वमूर्धानमपि त्वदर्थे किं नाम शुल्कं यदिहैव तभ्यम्
विहस्य चैतद्वचनं बभाषे हिताय सर्वस्य चराचरस्य
यो जेष्यते ऽस्मत्कुलजां रणाग्रे तस्याः स भर्त्तापि भविष्यतीति
गत्वा निवेदयामास महिषाय यथातथम्
आगत्य विन्ध्यशिखरं योद्धधुकामः सरस्वतीम्
सेनाग्रगामिनं चक्रे नमरं नाम दानवम्
बलेकदेशमादाय दुर्गा दुद्राव वेगितः