तस्योर्ध्वशृङ्गे मुनिसंस्तुता सा दुर्गा स्थिता दानवनाशनार्थम्
सर्वाप्सरोभिः प्रतिरामयन्तः कात्यायनीं तस्थुरपेतशोकाः
अपश्यतां दानवसत्तमौ द्वौ चण्डश् च मुण्डश्च तपस्विनीं ताम्
दृष्ट्वोचतुस्तौ महिषासुरस्य दूताविदं चण्डमुण्डौ दितीशम्
तत्रास्ति देवी सुमहानुभावा कन्या सुरूपा सुरसुन्दरीणाम्
नेत्रैस्त्रिभिस्त्रीणि हुताशनानि जितानि कण्ठेन जितस्तु शङ्खः
त्वां सर्वजोतारमिति प्रतर्क्य कुचौ स्मरेणैव कृतौ सुदुर्गौ
पराक्रमं वै भवतो विदित्वा कामेन यन्त्रा इव ते कृतास्तु
भयातुरारोहणकातरस्य कामस्य सोपानमिव प्रयुक्तम्
आरोहणे त्वद्भयकातरस्य स्वेदप्रवाहो ऽटसुर मन्मथस्य
तस्यैव लावण्यगृहस्य मुद्रा कन्दर्पराज्ञा स्वयमेव दत्ता
मन्याम तं कामनराधिपस्य प्राकारगुप्तं नगरं सुदुर्गम्
आवासनार्थं मकरध्वजेन जनस्य देशाविव सन्निविष्टौ
सृष्ट्वा विधाता हि निरूपणाय श्रान्तस्तथा हस्ततले ददौ हि
आक्रम्य लोकानिव मिर्मिताया रूपार्जितस्यैव कृताधरौ हि
आज्ञापि ताभ्यां नखरत्नमाला नक्षत्रमाला गगने यथैव
दृष्ट्वा यथेष्टं न च विद्म का सा सुताथवा कस्यचिदेव बाला
गत्वात्थ विन्ध्यं स्वयमेव पश्य कुरुष्व यत् ते ऽभिमतं क्षमं च
चक्रे मतिं नात्र विचारमस्ति इत्येवमुक्त्वा महिषो ऽपि नास्ति
यस्मिन् यथायानि यतो ऽथविप्र स नीयते वा व्रजति स्वयं वा
उग्रायुधं चिक्षुररक्तबीजौ समादिदेशाथ महासुरेन्द्रः
आगम्य मूले शिविरं निवेश्य तस्थुश्च सञ्जा दनुनन्दनास्ते
मयस्य पुत्रो रिपुसैन्यमर्दी स दुन्दुभिर्दुन्दुभिनिःखनस्तु
कुमारि दूतो ऽस्मि महासुरस्य रम्भात्मजस्याप्रतिमस्य युद्धे
वाक्यं च यद्रम्भसुतो बभाषे वदस्व तत्सत्यमपेतमोहः
सुखोपविष्टः परमासने च रम्भात्मजेनोक्तमुवाच वाक्यम्
यथामरा हीनबलाः पृथिव्यां भ्रमान्ति युद्धे विजिता मया ते
इन्द्रो ऽस्मि रुद्रो ऽस्मि दिवाकरो ऽस्मि सर्वेषु लोक्ष्वधिपो ऽस्मि बाले
यो मां हि संग्राममुपेयिवांस्तु भूतो न यक्षो न जिजीविषुर्यः
स्रावणि मामद्य समागतानि वीर्यार्जितानीह विशालनेत्रे