चूडामणिं कुण्डलमर्द्धचन्द्रं प्रादात् कुठारं वसुशिल्पकर्त्ता
भुजङ्गहारं भुजगेश्वरो ऽपि अम्लानपुष्पामृतवः स्रजं च
तां तुष्टुवुर्देववराः सहेन्द्राः सविष्णुरुद्रेन्द्वनिलाग्निभास्कराः
निद्रास्वरूपेण महीं वितत्य तृष्णा त्रपा क्षुद् भयदाथ कान्तिः
वृत्तिर्दया भ्रान्ति रथेह माया नमो ऽस्तु दैव्यै भवरूपिकायै
विन्ध्यं महापर्वतमुच्चशृङ्गं चकार यं निम्नतरं त्वगस्त्यः
कस्मै कृते केन च कारणेन एतद् वदस्वामलसत्त्ववृत्ते
रविस्ततः कुमभभवं समेत्य होमावसाने वचनं बभाषे
ददस्व दानं मम यन्मनीषिनं चरामि येन त्रिदिवेषु निर्वृतः
दानं ददामि तव यन्मनसस्त्वभीष्टं नार्थि प्रयाति विमुखो मम कश्चिदेव
एषो ऽद्य मे गिरिवरः प्ररुणाद्धि मार्गं विन्ध्यस्य निम्नकरणे भगवन् यतस्व
तव किरणजितो भविष्यते महीध्रो मम चरणसम्श्रितस्य का व्यथा ते
जगाम संत्यज्य हि दण्डकं हि विन्ध्याचलं वृद्ध्वपुर्महर्षिः
वृद्धोस्मयशक्तश्च तवाधिरोढुं तस्माद् भवान् नीचतरो ऽस्तु सद्यः
समाक्रमच्चापि महर्षिमुक्यः प्रोल्लङ्घ्य विन्ध्यं त्विदमाह शैलम्
त्वया न तावत्त्विह वर्धितव्यं नो चेद् विशप्स्ये ऽहमवज्ञया ते
आक्रम्य तस्थौ स हि तां तदाशां काले व्रजाम्यत्र यदा मुनीन्द्रः
तत्राथ निक्षिप्य विदर्भपुत्रीं स्वमाश्रमं सौम्यमुपाजगाम
शेषं च कालं स हि दण्डकस्थस् तपश्चारामितकान्तिमान् मुनिः
नासौ निवृत्तेति मतिं विधाय स संस्थितो नीचतराग्रशृङ्गः
तस्योर्ध्वशृङ्गे मुनिसंस्तुता सा दुर्गा स्थिता दानवनाशनार्थम्
सर्वाप्सरोभिः प्रतिरामयन्तः कात्यायनीं तस्थुरपेतशोकाः
अपश्यतां दानवसत्तमौ द्वौ चण्डश् च मुण्डश्च तपस्विनीं ताम्
दृष्ट्वोचतुस्तौ महिषासुरस्य दूताविदं चण्डमुण्डौ दितीशम्
तत्रास्ति देवी सुमहानुभावा कन्या सुरूपा सुरसुन्दरीणाम्
नेत्रैस्त्रिभिस्त्रीणि हुताशनानि जितानि कण्ठेन जितस्तु शङ्खः
त्वां सर्वजोतारमिति प्रतर्क्य कुचौ स्मरेणैव कृतौ सुदुर्गौ
पराक्रमं वै भवतो विदित्वा कामेन यन्त्रा इव ते कृतास्तु
भयातुरारोहणकातरस्य कामस्य सोपानमिव प्रयुक्तम्
आरोहणे त्वद्भयकातरस्य स्वेदप्रवाहो ऽटसुर मन्मथस्य