व्यद्रावयत् स तान् यक्षान् खङ्गपाणिर्भयङ्करः
ऋते संरक्षितारं हि महिषं रम्भनन्दनम्
यो ऽजयत् सर्वतो देवान् सेन्द्ररुद्रार्कमारुतान्
राज्ये ऽभिषिक्तश्च महासुरेन्द्रैर्विनिर्जितैः शम्बरतारकाद्यैः
स्थानानि त्यक्तानि शशीन्द्रभास्करैर्धर्मश्च दूरे प्रतियोजितश्च
जग्मुः पुरस्कृत्य रिचामहं ते द्रष्टुं तदा चक्रधरं श्रियः पतिम्
दृष्टावा प्रणम्यैव च सिद्दिसाधकौ न्यवेदयंस्तन्महिषादिचेष्टितम्
आक्रम्य नाकात्तु निराकृता वयं कृतावनिस्था महिषासुरेण
न चेद् व्रजामो ऽद्य रसातलं हि संकाल्यमाना युधि दानवेन
दृष्ट्वाथ चक्रे सहसैव कोपं कालाग्निकल्पो हरिरव्ययात्मा
तथैव शक्रादिषु दैवतेषु महर्द्धि तेजो वदनाद् विनिःसुतम्
कात्यायनस्याप्रतिमस्य तेन महर्षिणा तेज उपाकृतं च
तस्माच्च जाता तरलायताक्षी कात्यायनी योगविशुद्धदेहा
याम्येन केशा हरितेजसा च भुजास्तथाष्टादश संप्जज्ञिरे
ऊरब चजङ्घे च नितम्बसंयुते जाते जलेशस्य तु तेजसा हि
दिवाकराणमपि तेजसाङ्गुलीः कराङ्गुलीश्च वसुतेजसैव
साध्येन च भ्रयुगलं सुकान्तिमत् कन्दर्पबाणासनसन्निभं बभौ
कात्यायनीत्येव तदा बभौ सा नाम्ना च तेनैव जगत्प्रसिद्धा
शक्तिं हुताशः श्वसनश्च चापं तूणौ तथाक्ष्य्यशरौ विवस्वान्
ब्रह्मऽक्षमालां सकमण्डलुं च कालो ऽसिमुग्रं सह चर्मणा च
चूडामणिं कुण्डलमर्द्धचन्द्रं प्रादात् कुठारं वसुशिल्पकर्त्ता
भुजङ्गहारं भुजगेश्वरो ऽपि अम्लानपुष्पामृतवः स्रजं च
तां तुष्टुवुर्देववराः सहेन्द्राः सविष्णुरुद्रेन्द्वनिलाग्निभास्कराः
निद्रास्वरूपेण महीं वितत्य तृष्णा त्रपा क्षुद् भयदाथ कान्तिः
वृत्तिर्दया भ्रान्ति रथेह माया नमो ऽस्तु दैव्यै भवरूपिकायै
विन्ध्यं महापर्वतमुच्चशृङ्गं चकार यं निम्नतरं त्वगस्त्यः
कस्मै कृते केन च कारणेन एतद् वदस्वामलसत्त्ववृत्ते
रविस्ततः कुमभभवं समेत्य होमावसाने वचनं बभाषे
ददस्व दानं मम यन्मनीषिनं चरामि येन त्रिदिवेषु निर्वृतः
दानं ददामि तव यन्मनसस्त्वभीष्टं नार्थि प्रयाति विमुखो मम कश्चिदेव