पुरा रक्षार्थमीशेन कात्यायन्या द्विजोत्तम
नमरं रक्तबीजं च तथान्यान् सुरकण्टकान्
नमरं रक्तबीजं च तथान्यान् कुरकण्टकान्
एतद्विस्तरतस्तात यथावद् वक्तुमर्हसिः
सर्वदा वरदा दुर्गा येयं कात्यायनी मुने
रम्भश्चैव करम्भश् च द्वावास्तां सुमाबलौ
बहून् वर्षगणान् दैत्यौ स्थितौ पञ्चनदे जले
करम्भश्चैव रम्भश्च यक्षं मालपटं प्रति
चरणाभ्यां समादाय निजघान यथेच्छया
वह्नौ स्वशीर्षं संक्षिद्य होतुमैच्चन् महाबलः
छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः
दुस्तरा परवध्यापि स्ववध्याप्यतिदुस्तरा
मा म्रियस्व मृतस्येह नष्टा भवति वै कथा
त्रैलोक्यविजयी पुत्रः स्यान्मे त्वत्तेजसाधिकः
महाबलो वायुरिव कामरूपी कृतास्त्रवित्
यस्यां चित्तं समालम्बि करिष्यसि ततः सुतः
द्रष्टुं मालवटं यक्षं यक्षैश्च परिवारितम्
गजश्च महिषाश्चाश्वा गावो ऽजाविपरिप्लुताः
महिष्यां रूपयुक्तायां त्रिहायण्यां तपोधन
स चापि गमनं चक्रे भवितव्यप्रचोदितः
पातालं प्रविवेशाथ ततः स्वभवनं गतः
अकार्यकारकेत्येवं भृयो मालवटं गतः
समं जगाम तत् पुण्यं यक्षमण्डलमुत्तमम्
अजीजनत् सुतं शुभ्रं महिषं कामरूपिणम्
सा चाभ्यगाद् दितिवरं रक्षन्ती शीलमात्मनः
खङ्ग निष्कृष्य तरसा महिषं समुपाद्रवत्
रक्षिता गुह्यकैः साध्वी निवार्य महिषं ततः
निपपात सरो दिव्यं ततो दैत्यैऽभवन्मृतः
यक्षानाश्रित्य तस्थौ स कालयन् श्वापदान् मुन्
चितामारोपितः सा च श्यामा तं चारुहत् पतिम्