कृष्णोदुम्बरको रुद्राज्जातः क्षोमकरो वृषः
कात्यायनयाः शमीजाताबिल्वो लक्ष्मायाः करे ऽभवत्
वासुकेर्विस्तृते पुच्छे पृष्ठे दूर्वा सितासिता
एवं जातेषु सर्वेषु तेन तत् रतिर्भवेत्
तस्यां संपूजयेद् विष्णुं तेन खण्डो ऽस्य पूर्यते
ओषधीभिश्च मुख्याभिर्यावत्स्याच्छरदागमः
मणिमुक्ताप्रवालानि वस्त्राणि विविधानि च
तिक्तानि च निवेद्यानि तान्यखण्डानि यानि हि
यदा संवत्सरं पूर्णमखण्डं भवते गृहे
स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम्
होमे तदेव गदितं दाने शक्तिर्निजा द्विज
धूपयेद् विविधं धूपं येन स्याद् वत्सरं परम्
रागखाण्डवचोष्याणि हविष्याणि निवेदयेत्
विज्ञापयेन्मुनिश्रेष्ठ मन्त्रेणानेन सुव्रत
धर्मार्थकाममोक्षणि त्वखण्डानि भवन्तु मे
तेन सत्येन धर्माद्य अखण्डाः सन्तु केशव
अघण्डं पारयेद् ब्रह्मन् व्रतं वै सर्ववस्तुषु
धर्मार्थकाममोक्षाद्यास्त्वक्षयाः संभवन्ति हि
प्रक्ष्याम्यधुना त्वेतद्वैष्णवं पञ्जरं शुभम्
प्राच्यां रक्षस्व मां विष्णो त्वामाहं शरणं गतः
याम्यां रक्षस्व मां विष्णो त्वमाहं शरणं गतः
प्रतीच्यां रक्ष मे विष्णो भवन्तं शरणं गतः
उत्तरस्यां जगन्नाथ भवन्तं शरणं गतः
नमस्ते रक्ष रक्षघ्न ऐशान्यां शरणं गतः
प्रगृहय् रक्ष मां विष्णो आग्नेय्यां यज्ञसूकर
नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन्
वायव्यां रक्ष मां देव अश्वशीर्ष नमो ऽस्तु ते
मां त्वं रक्षाजित सदा नमस्ते त्वपराजति
अकूपार नमस्तुभ्यं महामोह नमो ऽस्तु ते
कृत्वा रक्षस्व मां देव नमस्ते पुरुषोत्तम