प्रीणनं देवनाथाय कुर्याच्छ्रद्धासमन्वितः
पूजनं शङ्करस्योक्तं चूतमञ्जरिभिर्विभो
नामजप्यमपीशस्य कालघ्नेति विपश्चिता
सोपवीतान् सहान्नाद्यांस्तच्चित्तैस्तत्परायणैः
धूपयेत्तत्त्रिनेत्रं च आयत्यां पुष्टिकारकम्
उपानद्यगलं छत्रं दानं दद्याच्च भक्तिमान्
इदमुच्चारयेद्भक्त्या प्रीणनाय जगत्पतेः
धत्तूरकुसुमैः शुक्लैर्धूपयेत् सिल्हकं तथा
नमस्ते दक्षयज्ञघ्न इदमुच्चैरुदीरयेत्
श्रीवृक्षपत्रः सफलैर्धूपं दद्यात् तथागुरुम्
दध्योदनं सकृसरं माषधानाः सशष्कुलीः
गङ्गाधरेति जप्तव्यं नाम शंभोश्च पण्डितैः
अक्षयान् लभते कामान् महेश्वरवचो यथा
स्वयं रुद्रण देवर्षे तत्तथा न तदन्यथा
नाभ्या निर्याति हि तदा देवेष्वेतान्यथो ऽभवन्
तेन तस्य परा प्रीतिः कदम्बेन विवर्द्धते
वटवृक्षः समभवत् तस्मिस्तस्य यतिः सदा
संजातः स च शर्वस्य पतिकृत् तस्य नित्यशः
ख दरः कण्टकी श्रेयानभवद्विश्वकर्मणः
गणाधिपस्य कुम्भस्थो राजते सिन्धुवारकः
कृष्णोदुम्बरको रुद्राज्जातः क्षोमकरो वृषः
कात्यायनयाः शमीजाताबिल्वो लक्ष्मायाः करे ऽभवत्
वासुकेर्विस्तृते पुच्छे पृष्ठे दूर्वा सितासिता
एवं जातेषु सर्वेषु तेन तत् रतिर्भवेत्
तस्यां संपूजयेद् विष्णुं तेन खण्डो ऽस्य पूर्यते
ओषधीभिश्च मुख्याभिर्यावत्स्याच्छरदागमः
मणिमुक्ताप्रवालानि वस्त्राणि विविधानि च
तिक्तानि च निवेद्यानि तान्यखण्डानि यानि हि
यदा संवत्सरं पूर्णमखण्डं भवते गृहे
स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम्