श्रीधराय नमस्तस्मै छद्मवामनरूपिणे
नारदः परिपप्रच्छ पुराणं वामनाश्रयम्
वामनत्वं धृतं पूर्वं तन्ममाचक्ष्व पृच्छतः
त्रिदशैर्युयुधे सार्थमत्र मै संशयो महान्
शङ्करस्य प्रिया भार्या बभुव वरवर्णिनी
जाता हिमवतो गेहे गिरीन्द्रस्य महात्मनः
एतन्मे संशयं छिन्धि सर्ववित् त्वं मतो ऽसि मे
व्रतानां विविधानां च विधिमाचक्ष्व मे द्विज
प्रोवाच वदतां श्रेष्ठो नारदं तपसो निधिम
अवधानं स्थिरं कृत्वा शृणुष्व मुनिसत्त्म
उवाच वचनं दृष्ट्वा ग्रीष्मकालमुपस्थितम्
यत्र वातातपौ ग्रीष्मे स्थितयोर्नौ गमिष्यतः
निराश्रयो ऽहं सुदती सदारण्यचरः शुभे
निदाघकालमनयत् समं शर्वेण सा सती
घनान्धकारिताशो वै प्रावृट्कालोषतिरागवान्
प्रोवाच वाक्यं देवेशं सती सप्रणयं तदा
स्फुरन्ति नीलाभ्रगणेषु विद्युतो वाशन्ति केकारवमेव बर्हिणः
कदम्बसर्ज्जार्जुनकेतकीद्रुमाः पुष्पाणि मुञ्चन्ति सुमारुताहताः
यथाश्रयान् योगिगणः समन्तात् प्रवृद्धमूलानपि संत्यजन्ति
नूनं समृद्धिं सलिलस्य दृष्ट्वा चरन्ति शूरास्तरुणद्रुमेषु
किमत्र चित्रं यदनुज्ज्वलं जनं निषेव्य योषिद् भवति त्वशीला
फलैश्च बिल्वाः पयसा तथापगाः पत्रैः सपद्मैश्च महासरांसि
गृहं कुरुष्वात्र महाचजलोत्तमे सुनिर्वृता येन भवामि शंभो
न मे ऽस्ति वित्तं गृहसंचयार्थे मृगारिचर्मावरणं मम प्रिये
केयूरमेकं मम कम्बलस्त्वहिर्द्वितीयमन्यो भुजगो धनञ्जयः
नीलो ऽपि नीलाञ्जनतुल्यवर्णः श्रोणीतटे राजति सुप्रतिष्ठः
अवनितसमवेक्ष्य स्वामिनो वासकृच्छ्रात् परिवदति सरोषं लज्जयोच्छ्वस्य चोष्म्
वृक्षमूले स्थिताया मे सुदुःखेन वदाम्यतः
ततो ऽभवन्नाम तेदश्वरस्य जीमूतकेतुस्त्विति विश्रुतं दिवि
लोकान्न्दकरी रम्या शरत् समभवन्मुने