पद्माः सुगन्धं निलयानि वायसा रुरुर्विषाणं कलुषं जलाशयः
नन्दन्ति हृष्टान्यपि गोकुलानि सन्तश्च संतोषमनुव्रजन्ति
सतां च चित्तं हि दिशां मुखैः समं वैमल्यमायान्ति शशङ्ककान्तयः
सतीमादाय शैलेन्द्रं मन्दरं समुपाययौ
रराम शंभुर्भगवान् सत्या सह महाद्युतिः
दक्षः प्रजापतिश्रेष्ठो यष्टुमारभत क्रतुम्
सकश्यपान् समामन्त्र्य सदस्यान् समचीकरत्
सहानसूययात्रिं च सह धृत्या च कौशिकम्
चन्द्रया सहितं ब्रह्मन्नृषिमङ्गीरसं तथा
विद्वान् गुणसंपन्नान् वेदवेदाड्गपारगान्
निमन्त्र्य यज्ञवाटस्य द्वारपालत्वमादिशत्
भृगुं च मन्त्रसंस्कारे सम्यग् दक्षं प्रयुक्तवान्
धनानामाधिपत्ये च युक्तवान् हि प्रजापतिः
सशङ्करां सतीं मुक्त्वा मखे सर्वान् न्यमन्त्रयत्
ज्येष्ठः श्रेष्ठो वरिष्ठो ऽपि आद्यो ऽपि न निमन्त्रितः
कपालीलि विदित्वेशो दक्षेण न निमन्त्रितः
किमर्थं देवताश्रेष्ठः शूलपाणिस्त्रिलोचनः कपाली भगवाञ्जातः कर्मणा केन शङ्करः
प्रोक्तमादिपुराणे च ब्रह्मणाव्यक्तमूर्त्तिना
नष्टटन्द्रार्कनक्षत्रं प्रणष्टपवनानलम्
निमग्नुपर्वततरु तमोभूतं सुदुर्दसम्
रात्र्यन्ते सृजते लोकान् राजसं रूपास्थितः
स्रष्टा चराचरस्यास्य जगतो ऽद्भुतदर्शनः
शूलपाणिः कपर्द्दी च अक्षमालां च दर्शयन्
येनाक्रान्ताव् उभौ देवौ तावेव ब्रह्मशङ्करौ
को भवानिह संप्राप्तः केन सृष्टो ऽसि मां वद
भवतो जनकः को ऽत्र जननी वा तदुच्यताम्
परिवादो ऽभवत् तत्र उत्पत्तिर्भवतो ऽभवत्
धारयन्नतुलां वीणां कुर्वन् किलकिलाध्वनिम्
तस्थावधोमुखो दीनो ग्रहाक्रान्तो यथा शशी
क्रोधान्धकारितं रुद्रं पञ्चमो ऽथ मुखो ऽब्रोवीत्