एवं चिंतयतस्तस्य भक्तिनम्रस्य पार्व्वति
तेनोक्तं यदि तुष्टासि मातर्मम महेश्वरि
अक्रूरेश्वरनामायं देवः ख्यातो भवत्विति
त्वं मूर्ता पुण्यनिचया त्वं गतिः पुण्यसेविनाम्
कुरु पुण्यतमं स्थानं ब्रह्महत्यादिनाशनम्
तथेति च त्वया प्रोक्तं गिरा मधुरया तदा 5.2.39.
न मेऽस्ति दुष्करं पुत्र त्वत्कृते कनकप्रभ प्रसंगादपि पश्यंति अपि पापरता नराः
भक्त्या स्तोष्यंति ये नाम लिंगस्यास्य च मानवाः
स्नात्वा तु विधिवत्पूजां यः करिष्यति मानवः
आयुरारोग्यमैश्वर्यं काममत्र हि वांछितम्
स्नात्वा मंदाकिनीकुंडे योऽकूरेश्वरमीश्वरम्
विमानं दिव्यमारूढो यावत्कल्पचतुष्टयम्
इत्युक्तः स गणो देवि मत्समीपमुपागतः
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण लभ्यते सद्गतिः परा
विज्ञप्तोऽहं त्वया देवि मंदरे चारुकंदरे
मया प्रोक्तं विशालाक्षि महाकालवनो त्तमे
मुनिभिः सहितो धीमान्भ्राजमानोंऽशुमानिव
मदीयं वचनं श्रुत्वा त्वयाहं प्रेरितस्तदा
सप्रस्नवौ स्तनौ जातौ सद्यः संस्मृत्य वीरकम्
मदीयं चिंतितं ज्ञात्वा ममपार्श्वमुपागतः
प्रस्थितस्तत्क्षणाच्छीघ्रं गणैर्नानाविधैः सह
रणद्वलयबाहुभ्यां गाढमालिंगितो ह्यहम्
वृषो मया विशालाक्षि स कृष्टो गणपैस्तदा 5.2.40.
श्रांतास्मि सांप्रतं देव वेगेनानेन भीषिता
क्षणं पद्भ्यां गमिष्यामि विषमोयं गिरिर्महान्
मुहूर्त्तं चारुजघने शैलपादमुपाश्रिता
पंथान त्वत्सुखं यत्र तं वयं मृगयावहे त्वदाज्ञावशवर्त्ती च किंकरः स्थापितो मया
एवमुक्त्वा ततो देवि संस्थाप्य गणरक्षकम्
ततोऽवलोकितोऽत्यर्थं रमणीयो महा गिरिः