नमस्कारं प्रकुर्वति स्तोत्रं कुर्वंति चापरे
क्रूरां बुद्धिं समासाद्य गर्वेणतीव गर्वितः
एको देवो महादेवः स्त्रिया किमनया मम
कस्मान्न कुरुषे पूजां प्रदक्षिणमथो स्तुतिम् इत्थंभूतगणेश त्वं किं वै लौल्येन वर्त्तसे
इति भृंगिरिटिः श्रुत्वा कुद्धस्त्वामाह गर्वितः
एष एव च मे माता एष एव च मे पिता
त्वमप्यस्यैव शरणं ननु पार्वति संस्थिता 5.2.39.
इति भृंगिरिटेः श्रुत्वा वाक्यं कुपितया त्वया
सुतो भूत्वा भवान्कस्माददाक्षिण्यं ब्रवीषि माम्
नखदंतास्थिसंघातः शिश्नं वाक्च शिरस्तथा
इति भृंगिरिटिः श्रुत्वा सद्यो योगबलेन तु
ततः प्रभृति वामोरु नखदंतास्थिनासिकः
त्वां परित्यज्य दुःखार्त्त आजगाम ममांतिकम्
क्रूरा बुद्धिः कृता यस्मात्त्वया कुमतिना भृशम्
इत्युक्तस्तु त्वया देवि गणो भृंगिरिटिस्तथा
स गत्वा पुष्करद्वीपं तपसे भावितात्मवान् दग्धीभूतं च तपसा जगद्वै दुष्करेण तु
ततो ब्रह्मा च विष्णुश्च शक्रश्च त्रिदशैः सह 5.2.39.
उपगम्य ततस्तस्य कथितं पुरतो मया
त्रैलोक्यमपि निःसंज्ञं जातमेवं स्थिते त्वयि
प्रार्थ्यतां पार्वती पुत्र सा दास्यति वरं च ते एवमुक्तस्तदा तेन प्रार्थिता त्वं महेश्वरि
त्वया प्रोक्तं विशालाक्षि पुत्र गच्छ ममाज्ञया
पुनः प्राप्स्यसि कैलासं सिद्धगंधर्वसेवितम् यस्य दर्शनमात्रेण शुभा बुद्धिः प्रजायते
कृतघ्ना नास्तिकाः क्रूरा ये च विश्वासघातकाः दर्शनात्तस्य लिंगस्य तेऽपि स्वर्ग भुजो नराः
क्रूरां बुद्धिं समासाद्य कंसं हत्वा च केशिहा
महाकालवनं गत्वा तोष यित्वा महेश्वरम्
त्वदीयं वचनं श्रुत्वा गणो भृंगिरिटिस्तदा देवमाराधयामास तपसा दुष्करेण तु ।। 5.2.39.
एतस्मिन्नंतरे देवि लिंगमध्यात्त्वमुत्थिता फणींद्रबद्धजूटार्द्धमर्द्धधमिल्लभूषितम्
पत्रवल्लीविचित्रार्धमर्द्धचंद्रविराजितम्
ततो भृंगिरिटिर्देवि दृष्ट्वा तन्महदद्रुतम्
उमा च शंकरश्चैव देहमेकं सनातनम्