ये त्वां द्रक्ष्यंति गणप कुसुमेश्वरसंज्ञकम् 5.2.38.
कुसुमैरर्चयिष्यंति ये नराः कुसुमेश्वरम्
योऽप्येकं दिवसं मर्त्त्यस्त्वां पश्यति समाहितः
यः पूजयति भावेन कुसुमैः कुसुमेश्वरम्
एवमादिवरैः पुष्टः कृतोयं कुसु मेश्वरः
कुसुमेश्वरदेवस्य प्रभावः कथितस्त्वयम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे कुसुमेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशोऽध्यायः
यस्य दर्शनमात्रेण सुबुद्धिर्जायते नृणाम्
पुरा त्वयैव कल्पादौ परया शक्तिरूपया
ततस्त्वं संस्तुता देवैः सकिंनरमहोरगैः
नमस्कारं प्रकुर्वति स्तोत्रं कुर्वंति चापरे
क्रूरां बुद्धिं समासाद्य गर्वेणतीव गर्वितः
एको देवो महादेवः स्त्रिया किमनया मम
कस्मान्न कुरुषे पूजां प्रदक्षिणमथो स्तुतिम् इत्थंभूतगणेश त्वं किं वै लौल्येन वर्त्तसे
इति भृंगिरिटिः श्रुत्वा कुद्धस्त्वामाह गर्वितः
एष एव च मे माता एष एव च मे पिता
त्वमप्यस्यैव शरणं ननु पार्वति संस्थिता 5.2.39.
इति भृंगिरिटेः श्रुत्वा वाक्यं कुपितया त्वया
सुतो भूत्वा भवान्कस्माददाक्षिण्यं ब्रवीषि माम्
नखदंतास्थिसंघातः शिश्नं वाक्च शिरस्तथा
इति भृंगिरिटिः श्रुत्वा सद्यो योगबलेन तु
ततः प्रभृति वामोरु नखदंतास्थिनासिकः
त्वां परित्यज्य दुःखार्त्त आजगाम ममांतिकम्
क्रूरा बुद्धिः कृता यस्मात्त्वया कुमतिना भृशम्
इत्युक्तस्तु त्वया देवि गणो भृंगिरिटिस्तथा
स गत्वा पुष्करद्वीपं तपसे भावितात्मवान् दग्धीभूतं च तपसा जगद्वै दुष्करेण तु
ततो ब्रह्मा च विष्णुश्च शक्रश्च त्रिदशैः सह 5.2.39.
उपगम्य ततस्तस्य कथितं पुरतो मया
त्रैलोक्यमपि निःसंज्ञं जातमेवं स्थिते त्वयि
प्रार्थ्यतां पार्वती पुत्र सा दास्यति वरं च ते एवमुक्तस्तदा तेन प्रार्थिता त्वं महेश्वरि