एष एव सुतस्तेस्तु नयनानन्ददायकः 5.2.38.
मदीयं वचनं श्रुत्वा प्रेषिता विजया त्वया
विजयोवाच गणपं गणमध्ये च वर्त्तिनम् किमुन्मत्तवदत्यर्थं नृत्यरागेण मोहितः
इत्युक्तो भयसंत्रस्तः कुसुमैर्भूषितस्तदा
भूषितं कुसुमैर्दृष्ट्वा भयत्रस्तं च वीरकम्
एह्येहि जातोऽसि मे पुत्रकस्त्वं देवेन दत्तोऽधुना वीरकोसि
मूर्धन्युपाघ्राय सम्मार्ज्य गात्राणि सा भूषयामास दिव्यैः स्वयं भूषणैः
कोमलैः पल्लवैश्चित्रितैश्चारुभिर्दिव्य मन्त्रोद्भवैस्तस्य शुभ्रैस्ततः
एवमाधाय चोवक्थ कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभंगोज्वलैः
सोऽपि सिद्ध्याकुले गण्डशैले मिलद्रत्नजाले वृहच्छा लतालाकुले
क्षणं स्वल्पपंके जले पंकजाले क्षणं वृक्षखण्डे शुभे निष्कलंके 5.2.38.
एवं विक्रीडतस्तस्य वीरकस्य गणस्य च
ऐश्वर्यं दीयतामस्य मम पुत्रस्य शंकर
लिंगत्वमक्षयत्वं च स्थानं दिव्यं सुदुर्ल्लभम् ब्रह्मेन्द्रवरुणादित्यलोकपालेश्वरेश्वरैः
एतैरेव गणैः सार्द्धं स्तूय मानं महात्मभिः
कुसुमेश्वरसंज्ञस्तु तस्मात्ख्यातो भवत्विति
मत्प्रभावसमं दिव्यं सेवितं गणपैः सदा
पश्य किन्नरनारीणां गायन्तीनां मनोरमम्
विद्याधरैः परिवृतः कुसुमेशो वरानने कुसुमेश्वरतां नीतो यदा कुसुममंडितः
स्थानं दत्तं विशालाक्षि शिवलिंगस्य चोत्तरे
ये त्वां द्रक्ष्यंति गणप कुसुमेश्वरसंज्ञकम् 5.2.38.
कुसुमैरर्चयिष्यंति ये नराः कुसुमेश्वरम्
योऽप्येकं दिवसं मर्त्त्यस्त्वां पश्यति समाहितः
यः पूजयति भावेन कुसुमैः कुसुमेश्वरम्
एवमादिवरैः पुष्टः कृतोयं कुसु मेश्वरः
कुसुमेश्वरदेवस्य प्रभावः कथितस्त्वयम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे कुसुमेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशोऽध्यायः
यस्य दर्शनमात्रेण सुबुद्धिर्जायते नृणाम्
पुरा त्वयैव कल्पादौ परया शक्तिरूपया
ततस्त्वं संस्तुता देवैः सकिंनरमहोरगैः