ततःप्रभृति राजासौ सकलत्रो महामतिः
देवदेवस्य माहात्म्यात्पुत्रो जातो महाबलः
अथाहं मन्दराद्देवि कौतु- कात्तु समागतः
योगैश्वर्येण च मया कृतं वै पुरमात्मनः तच्छिवं शाश्वतं स्थानं दत्तं देवि तदा मया
मार्कंडेयेश्वराद्देवादुत्तरे वरवर्णिनि .
येऽर्चयिष्यन्ति सततं शिवेश्वरमनुत्तमम्
विदित्वार्भगुरुं लोकं ये द्रक्ष्यंति शिवेश्व रम्
मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् ।। 5.2.37.
सर्वावस्थोऽपि यो मर्त्यः संश्रयेत्तं शिवेश्वरम्
आख्यानं प्रयतो मर्त्त्यो य इदं श्रावयेच्छुचिः
एष ते कथिता देवि प्रभावः पापनाशनः
देवं स्वर्गप्रदं देवि महापातकना शनम्
पुरा वैवस्वते कल्पे प्राप्ते वाराहसंज्ञके
महाकालवने रम्ये रममाणस्य पार्वति
पृष्टोऽहं च तदा श्रुत्वा शब्दं चातीव दुःसहम्
एते गणेशाः क्रीडंति मध्ये वै वीरको गणः
कुसुमैर्हन्यतेऽप्यर्थं पूज्यते कुसुमोत्करैः
नानाश्चर्यगुणाधारो गणेश्वरशतार्चितः
न दृश्यते विना पुण्यैः पुत्रस्याननपंकजम्
कदाहमीदृशं पुत्रं द्रक्ष्याम्यानन्ददायकम् प्रोक्तं पार्वति पुत्रोऽयं प्रदत्तो वीरकोऽधुना
एष एव सुतस्तेस्तु नयनानन्ददायकः 5.2.38.
मदीयं वचनं श्रुत्वा प्रेषिता विजया त्वया
विजयोवाच गणपं गणमध्ये च वर्त्तिनम् किमुन्मत्तवदत्यर्थं नृत्यरागेण मोहितः
इत्युक्तो भयसंत्रस्तः कुसुमैर्भूषितस्तदा
भूषितं कुसुमैर्दृष्ट्वा भयत्रस्तं च वीरकम्
एह्येहि जातोऽसि मे पुत्रकस्त्वं देवेन दत्तोऽधुना वीरकोसि
मूर्धन्युपाघ्राय सम्मार्ज्य गात्राणि सा भूषयामास दिव्यैः स्वयं भूषणैः
कोमलैः पल्लवैश्चित्रितैश्चारुभिर्दिव्य मन्त्रोद्भवैस्तस्य शुभ्रैस्ततः
एवमाधाय चोवक्थ कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभंगोज्वलैः
सोऽपि सिद्ध्याकुले गण्डशैले मिलद्रत्नजाले वृहच्छा लतालाकुले