सारार्थं वेदवेदानां शिवज्ञानमनाकुलम्
लिंगानि भुवि शैवानि दिव्यानि च कृपानिधे
याल्लिङ्मममलं दिव्यमरिच्छेदनवैभवम्
नामस्मरणमात्रेण यत्पातकविनाशनम्
अनादिजगदाधारं यत्तेजः शैवमव्ययम्
इति भक्तिमतस्तस्य कौतूहलसमन्वितम्
दध्यौ च सुचिरं शंभुं पंकजासनसंस्थितः
दृष्ट्वा यदा पुरा दृष्टं तेजःस्तंभमयं शिवम्
पुनराज्ञां शिवाल्लब्धामनुपालयितुं प्रभुः
शिवदर्शनसंजातपुलकांकितविग्रहः
शिवयोगमनुध्यायन्नस्मार्षं तव चादरात्
शिवभक्तिः परा जाता तपोभिर्बहुभिस्तव
पावयंति जगत्सर्वं चरितैस्ते निराकुले 1.3.1.1.
संभाषणं सहावासः क्रीडा चैव विमिश्रणम्
श्रूयतामद्भुतं शैवमाविर्भूतं यथा पुरा
अहं नारायणश्चोभौ जातौ विश्वाधिकोदयात्
स्वभावेन समुद्भूतौ विवदंतौ परस्परम्
परस्परं रणोत्साहमावयोरतिभीषणम्
किमर्थमनयोर्युद्धं जायते लोकनाशनम्
समयेऽस्मिन्स्वयं लक्ष्यो मुग्धयोरनयोर्भृशम्
वेदेषु मम माहात्म्यं विश्वाधिकतया श्रुतम्
सर्वोपि जंतुरात्मानमधिकं मन्यते भृशम्
यद्यहं क्वापि भुवने दास्यामि मितिमात्मनः 1.3.1.1.
इति निश्चित्य मनसा स्वयमेव सदाशिवः
अतीत्य सकलाँल्लोकान्सर्वतोऽग्निरिव ज्वलन्
अनाद्यंततया चाथ दृगार्तौ संव्यतिष्ठताम्
आवयोः पुरतो जाता वाणी चाप्यशरीरिणी
युवयोर्बलवैषम्यं शिव एव विवेक्ष्यते
आद्यंतयोर्यदि युवामीक्षिषाथां बलाधिकौ
अहं विष्णुश्च गतिमान्विचेतुं तद्व्यवस्थितौ