कोऽपुत्रः पुत्रवानस्तु मन्मंत्रबलमाश्रितः
तस्य वाक्यं समाकर्ण्य कौतूहलसमन्वितः
तेषां स नाशयामास व्याधिं दुर्जयमप्यति हेमरत्नांबरधनैर्धान्यग्रामपुरादिभिः
एवं स न्यवसत्तत्र वर्षाणि च चतुर्द्दश
अहोऽतिदुष्करो राजा अहो लोकपरायणः
एवं स चिंतयंस्तत्र भिक्षु रूपी शिवो गणः
अत्रांतरे तु नृपतेस्तस्य लोकव्रतस्य तु
रूपेणाप्रतिमा लोके सा चापुत्रा सुतार्थिनी 5.2.37.
सर्वकामप्रदं ज्ञात्वा नाग राणां सकौतुकम्
भिक्षोरायतने गुप्तमंतःपुरमतंद्रिता उवाच चिंतापरमं भिक्षुं भिक्षासमन्वितम्
प्रणम्य प्रांजलिर्भूत्वा कार्यार्थं विगतव्यथा वंध्या पुत्रार्थिनी देवी गुप्तं त्वां द्रष्टुमिच्छति
भवान्कृपाकरः प्रायः प्रजानामीहितप्रदः
अविज्ञातो नरपतेर्गृहमेहीति भाषसे
एवं मत्वा व्रज क्षिप्रं स्वमेवांतःपुरं शुभे
सा तु तस्य वचः श्रुत्वा भिक्षोः क्षुभितमानसा
सखीवचस्तु सा श्रुत्वा देवी दीना उवाच ताम् भिक्षोरानयने क्षिप्रं यावन्नासौ व्रजेत्क्वचित्
उवाच सा तां युक्त्यैव सुनंदा युक्तभाषिणी
तस्मादस्वस्थचित्तत्वं राज्ञः स्वं संप्रदर्शय 5.2.37.
एतस्मिन्नेव काले तु देव्या दर्शनलालसः तामपृच्छत्ततो राजा स्नेहार्द्रीकृतमानसः
राजोवाच किमिदं देवि ते रूपं विमनस्केव भाषसे
नृपस्य वचनं श्रुत्वा राज्ञी वचनमब्रवीत्
क्रीडनं पीडनायैव तेषां ये पुत्रवर्जिताः अपुत्रे च गतिर्नास्ति सुतापुत्रविवर्जिते
सुखिनस्ते जना लोके ये बालं पांसुभूषितम्
अनेन कारणेनास्मि निर्वेदं परमं गता
इह भिक्षुः समायातो देवरूपी सनातनः
सस्त्रीबालो जनश्चात्र शरणं यस्य गच्छति भविष्यामोऽत्र संदेहो न मे मनसि वर्त्तते
तस्याः स वचनं श्रुत्वा जीर्णोद्यानं जगाम ह
दृष्टमात्रो नृपतिना भिक्षुर्लिगत्वमागतः पूजयामास विधिवत्तल्लिंगं भिक्षु रूपकम् ।। 5.2.37.
अपुत्रोऽस्मीत्युवाचेदं धन्येयं महिषी मम
इत्युक्तो राजसिंहेन भिक्षुर्लिंगा कृतिस्तदा