देवपूजां व्रतं दानं ध्यानं स्वाध्यायसत्क्रियाम्
स प्रजाः पालयामास पुत्रवत्परिपालिताः
पुत्रिणो धनधान्याढ्याः सर्वकामसमन्विताः
एतस्मिन्नंतरे पृथ्वीं तस्मिञ्छासति पार्वति विना चोज्जयिनीं गंतुं न रतिं प्राप कुत्रचित्
तदा मया गणेशस्तु शिवसंज्ञो गणाग्रणीः
मयाप्युक्तो गणेशो हि गच्छ पुत्र मम प्रियम्
इत्युक्तः स मया देवि तथेत्युक्ता कृतांजलिः
गते शिवगणे देवि संतुष्टोऽहं शुचिस्मिते 5.2.37.
ततः स भिक्षु रूपेण बह्वोषधिपरिग्रहः
कश्च भूतविषग्रस्तो नानादोषैः समाश्रितः
कोऽपुत्रः पुत्रवानस्तु मन्मंत्रबलमाश्रितः
तस्य वाक्यं समाकर्ण्य कौतूहलसमन्वितः
तेषां स नाशयामास व्याधिं दुर्जयमप्यति हेमरत्नांबरधनैर्धान्यग्रामपुरादिभिः
एवं स न्यवसत्तत्र वर्षाणि च चतुर्द्दश
अहोऽतिदुष्करो राजा अहो लोकपरायणः
एवं स चिंतयंस्तत्र भिक्षु रूपी शिवो गणः
अत्रांतरे तु नृपतेस्तस्य लोकव्रतस्य तु
रूपेणाप्रतिमा लोके सा चापुत्रा सुतार्थिनी 5.2.37.
सर्वकामप्रदं ज्ञात्वा नाग राणां सकौतुकम्
भिक्षोरायतने गुप्तमंतःपुरमतंद्रिता उवाच चिंतापरमं भिक्षुं भिक्षासमन्वितम्
प्रणम्य प्रांजलिर्भूत्वा कार्यार्थं विगतव्यथा वंध्या पुत्रार्थिनी देवी गुप्तं त्वां द्रष्टुमिच्छति
भवान्कृपाकरः प्रायः प्रजानामीहितप्रदः
अविज्ञातो नरपतेर्गृहमेहीति भाषसे
एवं मत्वा व्रज क्षिप्रं स्वमेवांतःपुरं शुभे
सा तु तस्य वचः श्रुत्वा भिक्षोः क्षुभितमानसा
सखीवचस्तु सा श्रुत्वा देवी दीना उवाच ताम् भिक्षोरानयने क्षिप्रं यावन्नासौ व्रजेत्क्वचित्
उवाच सा तां युक्त्यैव सुनंदा युक्तभाषिणी
तस्मादस्वस्थचित्तत्वं राज्ञः स्वं संप्रदर्शय 5.2.37.
एतस्मिन्नेव काले तु देव्या दर्शनलालसः तामपृच्छत्ततो राजा स्नेहार्द्रीकृतमानसः
राजोवाच किमिदं देवि ते रूपं विमनस्केव भाषसे