स जातमात्रो धर्मात्मा तत्रैव तपसि स्थितः
त्वयाहं जातमात्रेण तपसा तोषितो यतः
ये मां पश्यंति विप्रेंद्र भक्त्या परमया युताः
प्रसंगाद्ये गमिष्यंति ते सदा दुःखवर्जिताः 5.2.36.
त्र्यक्षा गणेश्वराः सिद्धाः सिद्धगंधर्वसेविताः
ये मां संपूजयिष्यंति हृद्यैः पुष्पैः सुगंधिभिः
इत्युक्ते तेन लिंगेन मार्कण्डेयो महातपाः
प्रभावः कथितो देवि मार्कंडेयेश्वरस्य च
यस्य दर्शनमात्रेण जायंते सर्वसंपदः
राजा रिपुंजयोनाम ब्रह्मकल्पे पुराभवत्
देवपूजां व्रतं दानं ध्यानं स्वाध्यायसत्क्रियाम्
स प्रजाः पालयामास पुत्रवत्परिपालिताः
पुत्रिणो धनधान्याढ्याः सर्वकामसमन्विताः
एतस्मिन्नंतरे पृथ्वीं तस्मिञ्छासति पार्वति विना चोज्जयिनीं गंतुं न रतिं प्राप कुत्रचित्
तदा मया गणेशस्तु शिवसंज्ञो गणाग्रणीः
मयाप्युक्तो गणेशो हि गच्छ पुत्र मम प्रियम्
इत्युक्तः स मया देवि तथेत्युक्ता कृतांजलिः
गते शिवगणे देवि संतुष्टोऽहं शुचिस्मिते 5.2.37.
ततः स भिक्षु रूपेण बह्वोषधिपरिग्रहः
कश्च भूतविषग्रस्तो नानादोषैः समाश्रितः
कोऽपुत्रः पुत्रवानस्तु मन्मंत्रबलमाश्रितः
तस्य वाक्यं समाकर्ण्य कौतूहलसमन्वितः
तेषां स नाशयामास व्याधिं दुर्जयमप्यति हेमरत्नांबरधनैर्धान्यग्रामपुरादिभिः
एवं स न्यवसत्तत्र वर्षाणि च चतुर्द्दश
अहोऽतिदुष्करो राजा अहो लोकपरायणः
एवं स चिंतयंस्तत्र भिक्षु रूपी शिवो गणः
अत्रांतरे तु नृपतेस्तस्य लोकव्रतस्य तु
रूपेणाप्रतिमा लोके सा चापुत्रा सुतार्थिनी 5.2.37.
सर्वकामप्रदं ज्ञात्वा नाग राणां सकौतुकम्
भिक्षोरायतने गुप्तमंतःपुरमतंद्रिता उवाच चिंतापरमं भिक्षुं भिक्षासमन्वितम्