चकार स मुनिस्तत्र वर्षाणि द्वादशैव तु
ततो ज्ञात्वा मतिं तस्य विज्ञप्तोऽहं तदा त्वया
तेजसा दीपयञ्छैलं शोषयन्सलिलाशयान्
समुद्राः क्षुभिताः सर्वे चन्द्रादित्यौ तथैव च अकालप्रलयो देव भविष्यति न संशयः ।।5.2.36.
मुनये तन्मृकण्डाय पुत्रो वै दीयतामिति
अक्षयं सुविशालाक्षि सहस्राक्षमिवापरम्
नीलोत्पलदलश्यामं नीलोत्पलदलेक्षणम् पुत्रमिच्छति देवेशि मृकण्डोऽयं महामुनिः
त्वयाप्युक्तं पुनर्देवि कारुण्याद्भक्तिवत्सले
फलस्य दाता तपसां कथं त्वं गीयसे बुधैः
करोषि सर्वदैत्यानां सर्वदेवाकुलाकुलम्
नान्यो मामनुकम्पार्थं प्रयच्छेत्प्रवरं वरम्
हेतुः स्वामी महेशानो दयालुर्भक्तवत्सलः
तपसा क्षीणपापस्य ब्रह्मत्वे भावितात्मनः
मया त्वं वर्णिता देवि स्नेहाक्षरपदैः शुभैः 5.2.36.
स्कंदमातः कलापूर्णचंद्रबिम्बनिभानने
त्वयोक्तं प्रकरिष्यामि वाक्यं द्विरदगामिनि
त्वं माया श्रीर्द्युतिः श्रीमच्छ्रद्धारुचिरसंततिः
भ्राजसे विविधाकारा मोहयित्वाखिलं जगत्
मुनयेऽस्मै तपःक्षीणसर्वगात्राय सांप्रतम्
मयाप्युक्तं विशालाक्षि श्रूयतां वचनं मम
पत्तनेश्वरपूर्वे तु तत्रास्ते लिंगमुत्तमम्
मदीयं वचनं श्रुत्वा त्वयाप्युक्तो द्विजोत्तमः तत्र लिंगं समाराध्य लप्स्यसे पुत्रमुत्तमम्
त्वया संप्रेरितो विप्रस्तथेति कृतनिश्चयः
तत्र दृष्ट्वा महालिंगं पुत्रदं पापनाशनम् 5.2.36.
अथ केनापि कालेन निःसृतोऽहं त्वया सह
शर्वोऽहमिति जानीहि ब्रूहि किं करवाणि ते
यमिच्छसि वरं ब्रह्मंस्तदद्य प्रददामि ते
प्रह्वः प्राह सुहृदये स हृष्टो मुनि सत्तमः
मया प्रोक्तस्तदा देवि मृकण्डो मुनिसत्तमः ऐश्वर्यज्ञानसंपन्नो दीर्घायुः सर्ववित्सुधीः
एतस्मिन्नंतरे देवि प्रादुर्भूतो महातपाः