इंद्रेणाराधितं लिंगं भक्त्या यः पूजयिष्यति
येन चेंद्रेश्वरो देवो भक्त्या सम्यक्प्रपूजितः मुनयो लोकपालाश्च पूजिताः स्युर्न संशयः
इत्युक्तः स सुरैः शक्रो वैकुण्ठाद्यैः समंततः
इंद्रेश्वरस्य देवस्य प्रभावः कथितस्त्वयम्
यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः
ब्रह्मवंशसमुत्पन्नो मृकण्डोनाम तापसः
पुत्रार्थं चिन्तयामाम कथं पुत्रो भवेदिति
तस्मात्तपः करिष्यामि येन मे तनयो भवेत्
चकार वसतिं चापि तपसे भावितात्मवान्
शाकमूलफलाहारः पर्णाश्येकद्विपर्णभुक्
चकार स मुनिस्तत्र वर्षाणि द्वादशैव तु
ततो ज्ञात्वा मतिं तस्य विज्ञप्तोऽहं तदा त्वया
तेजसा दीपयञ्छैलं शोषयन्सलिलाशयान्
समुद्राः क्षुभिताः सर्वे चन्द्रादित्यौ तथैव च अकालप्रलयो देव भविष्यति न संशयः ।।5.2.36.
मुनये तन्मृकण्डाय पुत्रो वै दीयतामिति
अक्षयं सुविशालाक्षि सहस्राक्षमिवापरम्
नीलोत्पलदलश्यामं नीलोत्पलदलेक्षणम् पुत्रमिच्छति देवेशि मृकण्डोऽयं महामुनिः
त्वयाप्युक्तं पुनर्देवि कारुण्याद्भक्तिवत्सले
फलस्य दाता तपसां कथं त्वं गीयसे बुधैः
करोषि सर्वदैत्यानां सर्वदेवाकुलाकुलम्
नान्यो मामनुकम्पार्थं प्रयच्छेत्प्रवरं वरम्
हेतुः स्वामी महेशानो दयालुर्भक्तवत्सलः
तपसा क्षीणपापस्य ब्रह्मत्वे भावितात्मनः
मया त्वं वर्णिता देवि स्नेहाक्षरपदैः शुभैः 5.2.36.
स्कंदमातः कलापूर्णचंद्रबिम्बनिभानने
त्वयोक्तं प्रकरिष्यामि वाक्यं द्विरदगामिनि
त्वं माया श्रीर्द्युतिः श्रीमच्छ्रद्धारुचिरसंततिः
भ्राजसे विविधाकारा मोहयित्वाखिलं जगत्
मुनयेऽस्मै तपःक्षीणसर्वगात्राय सांप्रतम्
मयाप्युक्तं विशालाक्षि श्रूयतां वचनं मम