दृष्ट्वा तथाविधं शक्रमाशीर्भिरभिनंद्य च
अनुकूलो न कालोयं सुरेशस्य तवाधुना दृष्टा हि प्रवराः सर्वे मया तत्र महासुराः
एकैकोपि विजेतुं त्वां शक्तः स्यादिति मे मतिः दृष्टो वापि श्रुतो वापि यादृशो ह्यवलोकितः
बृहस्पतिवचः श्रुत्वा शक्रः संभ्रममागमत
किमत्र प्रतिकर्त्तव्यं वद तावद्बृहस्पते मत्सकाशं समेष्यंति स च वृत्रो महा बलः ।। 5.2.35.
इति शक्रवचः श्रुत्वा बृहस्पतिरुवाच तम्
महाकालवने रम्ये खंडेश्वरस्य दक्षिणे
तदाराधय यत्नेन तत्ते कामं प्रदास्यति
महाकालवने देवि दृष्ट्वा लिंगमनुत्तमम्
नमो देवाधिदेवाय शंकराय वृषाय च वरेण्याय नमो नित्यं नमस्ते सर्वकामद
आद्यः प्रजा सृष्टिकरस्त्वमेव कालः प्रजाः संहरसि त्वमेव
चंद्रश्च सूर्यः पवन स्त्वमेव धाता विधाता परमः पुराणः डिंडिर्महाकाल वृषस्त्वमेव विनायको गुह्यवरस्त्वमेव
इतीरितां स्तुतिं श्रुत्वा लिंगेनोक्तः शतक्रतुः हनिष्यसि न संदेहो वृत्रं रिपुविदारण
तस्य लिंगस्य माहात्म्यादपां फेनेन पार्वति
निहत्य दानवान्पश्चाल्लीलया रणकर्कशः 5.2.35.
त्रैलोक्याध्यक्षतां प्राप्ता भवंतो मत्पराक्रमात्
अस्य देवस्य माहात्म्याद्धतो वृत्रो महासुरः
इन्द्रेणाराधितो यस्माद्देवदेवो महेश्वरः
दर्शनादस्य लिंगस्य पुरीमिंद्रस्य शोभनाम्
यः पश्यति नरो नित्यं श्रीइन्द्रेश्वरसंज्ञकम्
इंद्रेणाराधितं लिंगं भक्त्या यः पूजयिष्यति
येन चेंद्रेश्वरो देवो भक्त्या सम्यक्प्रपूजितः मुनयो लोकपालाश्च पूजिताः स्युर्न संशयः
इत्युक्तः स सुरैः शक्रो वैकुण्ठाद्यैः समंततः
इंद्रेश्वरस्य देवस्य प्रभावः कथितस्त्वयम्
यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः
ब्रह्मवंशसमुत्पन्नो मृकण्डोनाम तापसः
पुत्रार्थं चिन्तयामाम कथं पुत्रो भवेदिति
तस्मात्तपः करिष्यामि येन मे तनयो भवेत्
चकार वसतिं चापि तपसे भावितात्मवान्
शाकमूलफलाहारः पर्णाश्येकद्विपर्णभुक्