दातव्यं च सुवर्णादि यथाशक्त्या द्विजन्मने
अतिविपुलविधानैर्वर्णितं धर्म्यमाद्यं कलयति परभक्त्या क्षेत्रमाहात्म्यमेतत्
यः पाठकस्यापि कदाचिदेव ददाति वित्तं च यथात्मशक्त्या
दधानो दुस्तारं शिरसि फणिराजं शशिकलां प्रदीपः सर्वेषामरुणगिरियोगीविजयते
अरुणाचलमाहात्म्यं त्वत्तः शुश्रूषवो वयम्
तन्माहात्म्यं वदेत्युक्तः सूतः प्रोवाच तान्मुनीन् श्रीसूत उवाच एतदर्थं चतुर्वक्त्रं पप्रच्छ सनकः पुरा
शृणुतावहिता यूयं तद्वो वक्ष्यामि सांप्रतम्
सत्यलोके स्थितं पूर्वं ब्रह्माणं कमलासनम्
आसीदशेषविज्ञानं प्रसादाद्भवतो मम
भवद्भक्तिविभूत्या मे शोधिते चित्तदर्पणे
सारार्थं वेदवेदानां शिवज्ञानमनाकुलम्
लिंगानि भुवि शैवानि दिव्यानि च कृपानिधे
याल्लिङ्मममलं दिव्यमरिच्छेदनवैभवम्
नामस्मरणमात्रेण यत्पातकविनाशनम्
अनादिजगदाधारं यत्तेजः शैवमव्ययम्
इति भक्तिमतस्तस्य कौतूहलसमन्वितम्
दध्यौ च सुचिरं शंभुं पंकजासनसंस्थितः
दृष्ट्वा यदा पुरा दृष्टं तेजःस्तंभमयं शिवम्
पुनराज्ञां शिवाल्लब्धामनुपालयितुं प्रभुः
शिवदर्शनसंजातपुलकांकितविग्रहः
शिवयोगमनुध्यायन्नस्मार्षं तव चादरात्
शिवभक्तिः परा जाता तपोभिर्बहुभिस्तव
पावयंति जगत्सर्वं चरितैस्ते निराकुले 1.3.1.1.
संभाषणं सहावासः क्रीडा चैव विमिश्रणम्
श्रूयतामद्भुतं शैवमाविर्भूतं यथा पुरा
अहं नारायणश्चोभौ जातौ विश्वाधिकोदयात्
स्वभावेन समुद्भूतौ विवदंतौ परस्परम्
परस्परं रणोत्साहमावयोरतिभीषणम्
किमर्थमनयोर्युद्धं जायते लोकनाशनम्
समयेऽस्मिन्स्वयं लक्ष्यो मुग्धयोरनयोर्भृशम्