अतिविषमतपोभिः शंकरं तोषयित्वा स्वपितुरपि च भक्त्या हन्मि मृत्योर्जयाशाम्
प्रयामि रुद्रं शरणं महेश्वरं देवं वरं चाप्युमयाऽविहीनम्
तपोभिरुग्रैः शितिकंठपादौ प्रसाद्य मृत्युं न चिराद्विनेष्ये
पप्रच्छुरेनं मुनयः शिशुं तं जानासि रुद्रं परमं कथं त्वम्
तथापि विद्मो न वयं महेशं ज्ञातस्त्वयासौ कथमर्भकेण 5.2.34.
ज्ञातस्त्वया कुत्र कथं महेशो महेश्वरो वै भुवनैकनाथः
इति तेषां वचः श्रुत्वा मुनीनां भावितात्मनाम्
ममात्र क्रीडतः सिद्धः सिद्धिदः समुपागतः
गच्छ पुत्र ममादेशान्महाकालवनोत्तमे
तमाराधय शीघ्रं त्वं चिरजीवी भविष्यसि
नान्यो देवोस्ति लोकेषु सत्यं सत्यं मुनीश्वराः
लिंगमाराधयिष्यामि विषादस्त्यज्यतामिह
पिता च विस्मितो देवि सर्व एव समागताः
लिंगमध्यात्ततो वाणी निःसृता पर्वतात्मजे
पापकंथाविनिर्मुक्तास्ते संतु चिरजीविनः ।। 5.2.34.
बालस्य भाषितं श्रुत्वा लिंगे नोक्तं यशस्विनि ते भविष्यंति सततं जरामरणवर्जिताः
लप्स्यंते परमान्कामान्भविष्यंति गणोत्तम
एवं लब्धवरः कंथः प्रांजलिः समुपस्थितः
वरो वै दुर्लभो लोके देवदानवगुह्यकैः
बालेनोक्तो महादेव यदि देयो वरः पुनः
एवमस्त्विति लिंगेन प्रोक्तं तुष्टेन पार्वति यस्य दर्शनमात्रेण चिरायुर्जायते नरः
यः समीक्षति तल्लिंगं कंथडेश्वरमीश्वरम्
पापकंथाविनिर्मुक्तो मुक्तिं यास्यति गौरि सः पुनाति पातकान्सर्वान्मम नामानुकीर्तनात्
तेऽधन्याः पुरुषा लोके तेषां जन्म निरर्थकम्
एष ते कथितो देवि प्रभावः पापनाशनः 5.2.34.
महासिद्धिप्रदं देवि ब्रह्महत्याविनाशनम्
आसीत्प्रजापतिस्त्वष्टा तस्य पुत्रः कुशध्वजः
तस्य पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः
अद्य पश्यंतु मे वीर्यं त्रयो लोकाः सदेवताः
स्वकर्मनिरतो येन मत्सुतो विनिपातितः