मातृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि
सोऽहं तपः करिष्यामि चैत्र आनीयतामिति
तस्मान्निवर्त्त्य ममता मनुमेने च तं प्रति
सन्मान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः
इंद्रेश्वरस्य देवस्य पश्चिमे लिंगमुत्तमम्
तपस्यंतं ततस्तं तु देवः प्राह शुचिस्मिते
मनुना भवता भाव्यं षष्ठेन व्रज तत्कुरु
इत्युक्तो देवदेवेन तथेत्याह महामतिः
पुत्रानुत्पादयामास लिंगस्यास्य समर्चनात्
आनंदेन यतः प्राप्ता सिद्धिर्देवि सुदुर्ल्लभा 5.2.33.
ये पश्यंति विशालाक्षि आनंदेश्वरमीश्वरम्
येषां क्षीणं नृणां पापं कोटिजन्मशतोद्भवम्
तदैव पुरुषो मुक्तो जन्ममृत्युजरादिभिः
मयोक्तं मुक्तिदं नृणामानन्देश्वरदर्शनम् अत्र देवैर्विशालाक्षि पूजितं लिंगमुत्तमम्
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते
वितस्तायास्तटे रम्ये ब्राह्मणो निवसन्पुरा
ज्ञातिभिश्च परित्यक्तो दुष्टया भार्यया तथा
तेनाहं सुतकामेन तोषितो गिरिगह्वरे
तस्य पुत्रः समुत्पन्नः कंथामध्यादयो निजः
स च लब्धः प्रसादेन मदीयेन वरानने
अथ षष्ठे गते वर्षे मौंजीबंधमचिंतयत् नमस्कृत्य ऋषीन्सर्वान्पूजयामास भक्तितः
फलैर्वित्तानुसारेण मौंजी तस्याप्यबंधत
दीयतामाशिषो ह्यस्मै पुत्राय मुनिसत्तमाः
तूष्णींभूयः स्थिताः सर्वे तच्छ्रुत्वा नोत्तरं ददुः ध्यानेन चिंतयामास नूनमल्पायुषं सुतम् ।। 5.2.34.
इति ज्ञात्वा तु संमोहमगमत्सहसा मुनिः
रुद्रेण च वरो दत्तः प्रसन्नेन पुरा मम
मत्तुल्यवीर्यः पुत्रस्ते कंथामध्याद्भ विष्यति
पितरं दुःखितं दृष्ट्वा तूष्णींभूतो मुनिस्तदा
त्यजत भयमिदानीं यन्ममार्थे विषण्णा विनिहतनिजयत्नं प्रेतराजं करोमि