तृतीयं भक्षयामास बोधपुत्रं निशाचरी
गुरुणा समनुज्ञातं क्रियतामभिवादनम्
वंद्या मे कतमा माता जनित्री पालिनी च वा
नन्वियं ते महाभाग जनित्री जनकात्मजा
आनंद उवाच चैत्रस्य प्रसवित्रीयं चैत्रोऽयं द्विजवेश्मनि
गुरुराह ततः कस्त्वं चैत्रः को वा त्वयोच्यते
न वेद्मि किंचिन्मोहेन भ्रमंति मम बुद्धयः
कः कस्य पुत्रो विप्रर्षे को वा कस्य न बांधवः
अतः संसारता हंति संसारं प्राणिनामिह
ब्रह्मपुत्रस्य दुष्टस्य दुःसहस्य सुता भुवि 5.2.33.
मातृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि
सोऽहं तपः करिष्यामि चैत्र आनीयतामिति
तस्मान्निवर्त्त्य ममता मनुमेने च तं प्रति
सन्मान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः
इंद्रेश्वरस्य देवस्य पश्चिमे लिंगमुत्तमम्
तपस्यंतं ततस्तं तु देवः प्राह शुचिस्मिते
मनुना भवता भाव्यं षष्ठेन व्रज तत्कुरु
इत्युक्तो देवदेवेन तथेत्याह महामतिः
पुत्रानुत्पादयामास लिंगस्यास्य समर्चनात्
आनंदेन यतः प्राप्ता सिद्धिर्देवि सुदुर्ल्लभा 5.2.33.
ये पश्यंति विशालाक्षि आनंदेश्वरमीश्वरम्
येषां क्षीणं नृणां पापं कोटिजन्मशतोद्भवम्
तदैव पुरुषो मुक्तो जन्ममृत्युजरादिभिः
मयोक्तं मुक्तिदं नृणामानन्देश्वरदर्शनम् अत्र देवैर्विशालाक्षि पूजितं लिंगमुत्तमम्
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते
वितस्तायास्तटे रम्ये ब्राह्मणो निवसन्पुरा
ज्ञातिभिश्च परित्यक्तो दुष्टया भार्यया तथा
तेनाहं सुतकामेन तोषितो गिरिगह्वरे
तस्य पुत्रः समुत्पन्नः कंथामध्यादयो निजः