वज्रेंद्रनीलवैडूर्यचन्द्रकांतादिदी पितः 5.2.32.
शक्राग्नियमरक्षोब्धिवायुसोमेशसेवितः
सदा प्रमुदिता देवास्तेऽपि कांक्षंति पत्तनन्न्
विद्योतितदिशो दांताः सूर्य वैश्वानरप्रभाः
विप्रा माहेश्वराः पुण्याः क्षत्रिया हरतत्पराः
स शुभ्ररूपः स च लोहिताकृतिः स चापि पीतः ससितेतरः क्वचित्
क्वचिद्रविसहस्राक्षः क्वचिदेकरविप्रभः
जन्म मृत्युजरारोगैर्दुःखानि विविधानि च
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये पत्तनेश्वर माहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः
विद्धि पापहरं पुण्यं सर्वसंपत्करं सदा
पुरा राथंतरे कल्पे बभूव पृथिवीपतिः
धर्मात्मा महात्मा च पराक्रमधनो नृपः
समः शत्रौ च पुत्रे च मित्रे च परधर्म्मवित्
अतीव वल्लभा सा च प्राणेभ्योऽपि गरीयसी
जातमात्रो निजोत्संगे स्थिरमुल्लाप्य वै पुनः
स जातिस्मरणो जातो मातुरुत्संगमास्थितः
भीतास्मि किमिदं वत्स हासो यद्वदने तव
इत्युक्तो मातरं प्राह सर्वोऽपि स्वार्थमीहते अंतर्धानगता चेयं द्वितीया जातहारिणी
पुत्रप्रीत्या च मातस्त्वमतः स्वार्थं समीहसे 5.2.33.
उद्भूते बालके स्नेहात्संभ्रमात्स्त्रीजनोऽप्ययम्
स्वार्थे प्रसक्ता मार्जारी लोलुपा मामवेक्षते
त्वं तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि
संगतिर्नाति बालानां पंचसप्तदिनात्मकम्
ततेति वत्स भो भद्र इत्यलीकं ब्रवीषि माम्
नाहं त्वामुपकारार्थं वत्स प्रीत्या परिष्वजे
इत्युक्त्वा सा तमुत्सृज्य निष्क्रांता सूतिकागृहात्
सा हृत्वा तं तदा बालं पूर्वजातिस्मरं प्रिये
मत्वा स्वकीयं पुत्रं तु विक्रांतेन महीभृता
विक्रांतस्य सुतो नीतो बोधस्य च द्विजन्मनः 5.2.33.