महाकालवनं रम्यं स्वर्गात्सुखकरं परम् 5.2.32.
अनौपम्यगुणं विद्धि पत्तनं पर्वतात्मजे गीतवादित्रचातुर्यैः स्पर्द्धते यः सुरालयम्
एतस्मिन्नंतरे देवि देवर्षिर्नारदो मुनिः
विनोदार्थं मया पृष्टस्त्वत्प्रियार्थं कुतूहलात्
कस्मिन्नाश्रमसंस्थाने तपसः संचयः कृतः
कौतुकं दृष्टपूर्वं तु वद मे मुनिसत्तम कथयामास वृत्तांतं पत्तनस्य प्रयत्नतः
बहूनि संपरिक्रम्य तीर्थान्यायतनानि च
अटनार्थं महादेव जंबूद्वीपे मनोरमे
स्वेच्छाकल्पितविन्यासः प्रासादशतकल्पितः
सर्वर्तुकुसुमामोदसुखस्पर्शानिलावृतः
वज्रेंद्रनीलवैडूर्यचन्द्रकांतादिदी पितः 5.2.32.
शक्राग्नियमरक्षोब्धिवायुसोमेशसेवितः
सदा प्रमुदिता देवास्तेऽपि कांक्षंति पत्तनन्न्
विद्योतितदिशो दांताः सूर्य वैश्वानरप्रभाः
विप्रा माहेश्वराः पुण्याः क्षत्रिया हरतत्पराः
स शुभ्ररूपः स च लोहिताकृतिः स चापि पीतः ससितेतरः क्वचित्
क्वचिद्रविसहस्राक्षः क्वचिदेकरविप्रभः
जन्म मृत्युजरारोगैर्दुःखानि विविधानि च
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये पत्तनेश्वर माहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः
विद्धि पापहरं पुण्यं सर्वसंपत्करं सदा
पुरा राथंतरे कल्पे बभूव पृथिवीपतिः
धर्मात्मा महात्मा च पराक्रमधनो नृपः
समः शत्रौ च पुत्रे च मित्रे च परधर्म्मवित्
अतीव वल्लभा सा च प्राणेभ्योऽपि गरीयसी
जातमात्रो निजोत्संगे स्थिरमुल्लाप्य वै पुनः
स जातिस्मरणो जातो मातुरुत्संगमास्थितः
भीतास्मि किमिदं वत्स हासो यद्वदने तव
इत्युक्तो मातरं प्राह सर्वोऽपि स्वार्थमीहते अंतर्धानगता चेयं द्वितीया जातहारिणी
पुत्रप्रीत्या च मातस्त्वमतः स्वार्थं समीहसे 5.2.33.