अभ्यर्च्य तु गृहं यावद्भवंतौ रक्षपालकौ
तेन पुण्येन ते जन्म प्रियव्रतगृहेऽभवत् 5.2.31.
परकीयप्रसंगेन संजाता भूभिरुत्तमा
तस्य देवस्य माहात्म्याद्यजंतं विविधैर्मखैः
अतः साधुपुरा प्रोक्तं मया तव महीपते
इति तस्य वचः श्रुत्वा कुंभयोनेर्महात्मनः ततः सांतःपुरः प्रायात्तेन सार्द्धं महर्षिणा
अगस्त्यकथितं लिंगं ददर्श श्रद्धया पुनः
ततस्तुष्टस्तदा देवो नृपं प्राहामितद्युतिः
कुलं प्रभावं सौभाग्यं दीर्घमायुररोगिताम्
इत्युक्तो देवदेवेन् गतोऽसौ विषयं स्वकम्
अनेकजन्मचरितं खंडव्रतकदम्बकम्
अतः खण्डेश्वरो देवो विख्यातो भुवनत्रये 5.2.31.
खण्डव्रतानि पूर्णानि तेषामाशु भवंति हि तत्सर्वं पूर्णतां याति श्रीखंडेश्वरदर्शनात्
दृष्ट्वा खंडेश्वरं देवं पापविघ्नैः प्रमुच्यते
दृष्ट्वा खण्डेश्वरं देवं कृतकृत्यत्वमाप्यते
खंडेश्वरेऽर्चिते देवे सर्वे देवाः सवासवाः
देवं खंडेश्वरं ये वै यजंति श्रद्धया प्रिये
धूप दीपैर्नमस्कारैर्जपैः स्तोत्रैः पृथग्विधैः
दीर्घायुषः शुभाचारा जायंते देहिनोऽमलाः खंडेश्वरप्रसादेन जायंते नात्र संशयः
एते च विष्णुब्रह्मेंद्रकुवेरदहनादयः
एष ते कथितो देवि प्रभावः पापनाशनः
विद्धि सिद्धिप्रदं पुंसां पत्तनेश्वरमीश्वरम्
पुराऽहं पर्वते देवि मंदरे चारुकन्दर्
किमर्थं पर्वतं त्यक्त्वा कैलासं रमणीयकम्
सिद्धचारणगन्धर्वकिंनरोद्गीतनादितम्
अथ कोकिलचक्राह्वचकोरकुरराकुलम्
महाकालवने शून्ये नानागुल्मलतावृते
ऋक्षवानरगोमायुजन्तुकादिविराजिते
कथं वासः कृतो देव कौतूहलमिदं मम
इति पृष्टस्त्वया देवि मंदरे चारुकन्दरे