पुष्पैर्विचित्रैर्ये देवं यजंते च्यवनेश्वरम्
एष ते कथितो देवि प्रभावः पापनाशनः
संपूर्णं जायते यस्य दर्शाद्दानव्रतादिकम्
आसीत्त्रेतायुगे देवि भद्राश्वोनाम पार्थिवः
तस्यागस्त्यः कदाचित्तु गृहमागम्य सत्तमः
तं राजा शिरसा नत्वा स्वास्यतामित्यभाषत
तस्यास्तेजः समभवद्द्वादशादित्यसंनिभम्
ता दास्य इव कर्माणि कुर्वंत्यहरहः सदा
तामगस्त्यस्तथा दृष्ट्वा तन्मुखासक्तलोचनाम् साधुसाधु जगन्नाथेत्यगस्त्यः प्राह हर्षितः
द्वितीये दिवसेप्येवं राज्ञीं दृष्ट्वा महाप्रभाम्
इत्यगस्त्यो द्वितीयेऽह्नि राज्ञीं दृष्टेत्युवाच ह
अहो मूढा न जानंति लिंगमाहात्म्यमुत्तमम् 5.2.31.
खंडव्रतानि जायंते पूर्णानि दर्शनाद्यदः
साधुसाधु जगन्नाथ साधु भद्राश्व सुव्रत
नृत्यंतं सप्तमे दृष्ट्वा दिने पत्न्या समन्वितः किं हर्षकारणं ब्रह्मन्येन नृत्यसमन्वितः
अहो पुरोहितो मुग्धो ये न जानंति मे मतम्
ईदृशा अपि जायंते राजानो यस्य दर्शनात्
न जानीमो वयं ब्रह्मन्नभिप्रायं तवाधुना
नगरे हरिदत्तस्य त्वमस्याः पतिरेव च
स च वैश्यो महाकाले गत्वा देवं महेश्वरम्
अभ्यर्च्य तु गृहं यावद्भवंतौ रक्षपालकौ
तेन पुण्येन ते जन्म प्रियव्रतगृहेऽभवत् 5.2.31.
परकीयप्रसंगेन संजाता भूभिरुत्तमा
तस्य देवस्य माहात्म्याद्यजंतं विविधैर्मखैः
अतः साधुपुरा प्रोक्तं मया तव महीपते
इति तस्य वचः श्रुत्वा कुंभयोनेर्महात्मनः ततः सांतःपुरः प्रायात्तेन सार्द्धं महर्षिणा
अगस्त्यकथितं लिंगं ददर्श श्रद्धया पुनः
ततस्तुष्टस्तदा देवो नृपं प्राहामितद्युतिः
कुलं प्रभावं सौभाग्यं दीर्घमायुररोगिताम्
इत्युक्तो देवदेवेन् गतोऽसौ विषयं स्वकम्