ततोश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु
त्वमपास्येह कल्याणि कामभोगबहिष्कृता
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः
रताहं च्यवने देवे मैवं मा पर्यशंकतम्
सा तयोर्वचनं श्रुत्वा कथयामास भार्गवे 5.2.30.
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः
अश्विनावपि तत्काले सरः प्राविशतां प्रिये
दिव्यरूपधराः सर्वे युवानो दिव्यकुंडलाः
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभम्
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरा न्स्थितान्
लब्ध्वा तु च्यवनो भार्यां वयो रूपं तु वांछितम्
यदहं रूपसंपन्नो वयसा च समन्वितः
तस्माद्युवां करि ष्यामि प्रीत्याहं सोमपायिनौ
तच्छ्रुत्वा हृष्टमनसौ दिवं देवौ प्रजग्मतुः
भिषजौ देवतानां हि कर्मणा तेन गर्हितौ 5.2.30.
वज्रं ते प्रहरिष्यामि घोररूपं सुदारुणम् बलिनं वासवं ज्ञात्वा चिंतयामास सत्वरम्
देवमाराधयिष्यामि महादेवं महेश्वरम् यः समर्थो जगद्गोप्ता सृष्टिसंहारकारकः
इत्युक्त्वा च्यवनो देवि महाकालवनं गतः श्रद्धयाराधितं तेन च्यवनेन महात्मना
तस्य प्रसन्नो रुद्रस्तु स वज्रादभयं ददौ
समाराधनतुष्टस्य लिंगस्यास्य प्रभावतः
क्रियेतां सोमपावेतावश्विनौ बलसूदन प्रत्युवाच ततः शक्रः प्रणामानतकंधरः
सोमपावश्विनावेतावद्यप्रभृति भार्गव
मा तेऽतिथ्याभिसंरंभो भविष्यति तपोधन ।। । लिंगस्यास्य प्रभावोऽयं यदहं निष्प्रभीकृतः
ततस्त्वन्नामधेयेन प्रसिद्धिर्भुवि यास्यति 5.2.30.
च्यवनेश्वरमेतद्वै ख्यातं त्रिभुवनेऽभवत् आजन्मप्रभवं पापं तेषां नश्यति तत्क्षणात्
यः पश्यति नरो नित्यं च्यवनेश्वरसंज्ञकम्
यंयं काममभिध्यायेन्मनसाभिमतं नरः
नियमेन प्रपश्यंति ये देवं च्यवनेश्वरम्
यः शृणोति कथां पुण्यां सर्वपापहरां शुभाम्
भक्तिहीनः क्रियाहीनो यः पश्यति प्रसंगतः