खद्योतवदभिज्ञातं तन्मया विद्धमंतिकम्
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम्
अज्ञानाद्बालया यत्तेऽपकृतं तु महीसुर
भार्यार्थे त्वं गृहाणेमां प्रसीद द्विजसत्तम
यद्येवं प्रतिगृह्यैतां क्षमिष्यामि महीपते
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह 5.2.30.
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिंदिता
कस्यचित्त्वथ कालस्य नासत्यावश्विनौ प्रिये
तां दृष्ट्वा दर्शनीयांगीं देवराजसुतामिव
सा प्रोवाच महाभागा पतिव्रतपरायणा
ततोश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु
त्वमपास्येह कल्याणि कामभोगबहिष्कृता
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः
रताहं च्यवने देवे मैवं मा पर्यशंकतम्
सा तयोर्वचनं श्रुत्वा कथयामास भार्गवे 5.2.30.
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः
अश्विनावपि तत्काले सरः प्राविशतां प्रिये
दिव्यरूपधराः सर्वे युवानो दिव्यकुंडलाः
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभम्
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरा न्स्थितान्
लब्ध्वा तु च्यवनो भार्यां वयो रूपं तु वांछितम्
यदहं रूपसंपन्नो वयसा च समन्वितः
तस्माद्युवां करि ष्यामि प्रीत्याहं सोमपायिनौ
तच्छ्रुत्वा हृष्टमनसौ दिवं देवौ प्रजग्मतुः
भिषजौ देवतानां हि कर्मणा तेन गर्हितौ 5.2.30.
वज्रं ते प्रहरिष्यामि घोररूपं सुदारुणम् बलिनं वासवं ज्ञात्वा चिंतयामास सत्वरम्
देवमाराधयिष्यामि महादेवं महेश्वरम् यः समर्थो जगद्गोप्ता सृष्टिसंहारकारकः
इत्युक्त्वा च्यवनो देवि महाकालवनं गतः श्रद्धयाराधितं तेन च्यवनेन महात्मना
तस्य प्रसन्नो रुद्रस्तु स वज्रादभयं ददौ
समाराधनतुष्टस्य लिंगस्यास्य प्रभावतः