आजगाम तमुद्देशं विहर्तुं वन उत्तमे
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः
सा सखीभिः परिवृता सर्वाभरणभूषिता
सा कौतुकात्कण्टकेन बुद्धिमोहवती तदा
अभवत्स तया विद्धो नेत्रयोः परमार्तिमान्
ततो रुद्धे शकृन्मूत्रे पर्यतप्यत पार्थिवः 5.2.30.
केनापकृतमद्येह भार्गवस्य महात्मनः
ज्ञातं वा यदि वाज्ञातं तदिदं ब्रूत मा चिरम्
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम्
पितरं दुःखितं दृष्ट्वा सुकन्या तमथाब्रवीत्
खद्योतवदभिज्ञातं तन्मया विद्धमंतिकम्
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम्
अज्ञानाद्बालया यत्तेऽपकृतं तु महीसुर
भार्यार्थे त्वं गृहाणेमां प्रसीद द्विजसत्तम
यद्येवं प्रतिगृह्यैतां क्षमिष्यामि महीपते
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह 5.2.30.
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिंदिता
कस्यचित्त्वथ कालस्य नासत्यावश्विनौ प्रिये
तां दृष्ट्वा दर्शनीयांगीं देवराजसुतामिव
सा प्रोवाच महाभागा पतिव्रतपरायणा
ततोश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु
त्वमपास्येह कल्याणि कामभोगबहिष्कृता
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः
रताहं च्यवने देवे मैवं मा पर्यशंकतम्
सा तयोर्वचनं श्रुत्वा कथयामास भार्गवे 5.2.30.
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः
अश्विनावपि तत्काले सरः प्राविशतां प्रिये
दिव्यरूपधराः सर्वे युवानो दिव्यकुंडलाः
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभम्
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरा न्स्थितान्