इति तस्य वचः श्रुत्वा नारदो भगवानृषिः भोभो राम किमात्मानं न स्मरस्यधुना हरिम्
त्वयैव कथितं पूर्वं ब्रह्महत्याविनाशनम् तस्मिन्क्षेत्रे महालिंगं ब्रह्महत्याविनाशनम् ।। 5.2.29.
जटेश्वरो महाभाग विद्यते सर्वसिद्धिदम् नारदस्य वचः श्रुत्वा स्मृत्वा क्षेत्रमनुत्तमम्
जगाम त्वरितं देवि महाकालवने ततः लिंगमध्यादहं देवि प्रसन्नो निर्गतस्तदा
जामदग्न्यो मया प्रोक्तः कांतकामं ददाम्यहम्
त्वत्पादपंकजे भूयाद्भक्तिर्मे विपुला सदा
इत्युक्तोऽहं तदा तेन यथा तुष्टेन पार्वति
अद्यप्रभृति ते नाम्ना देवः ख्यातो भविष्यति
भक्त्या ये पूजयिष्यंति देवं रामेश्वरं परम् ।। आजन्मप्रभवं पापं तेषां न३यति तत्क्षणात्
स एव पुण्यवान्पूज्य इह लोके परत्र च
येऽनुमोदंति देवस्य दर्शनं यजनं तथा
यच्चापि पातकं घोरं ब्रह्महत्यासहस्रकम् 5.2.29.
दुष्प्राप्यं यत्फलं विप्रैर्वाजपेयादिभिर्मखैः
ये हताभिमुखाः शूरा गोविप्रार्थे रणाजिरे
जितास्तेन सदा लोका रामेणेव जगत्त्रयम्
एष ते कथितो देवि प्रभावः पापनाशनः
श्रीविश्वनाथ उवाच यस्य दर्शनमात्रेण स्वर्गभ्रंशो न जायते
भृगोर्महर्षेः पुत्रश्च च्यवनो नाम पार्वति
वितस्तायास्तटे रम्ये बहुवर्षगणान्किल
कालेन महता देवि समाकीर्णः पिपीलकैः
आजगाम तमुद्देशं विहर्तुं वन उत्तमे
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः
सा सखीभिः परिवृता सर्वाभरणभूषिता
सा कौतुकात्कण्टकेन बुद्धिमोहवती तदा
अभवत्स तया विद्धो नेत्रयोः परमार्तिमान्
ततो रुद्धे शकृन्मूत्रे पर्यतप्यत पार्थिवः 5.2.30.
केनापकृतमद्येह भार्गवस्य महात्मनः
ज्ञातं वा यदि वाज्ञातं तदिदं ब्रूत मा चिरम्
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम्
पितरं दुःखितं दृष्ट्वा सुकन्या तमथाब्रवीत्