जघान जमदग्निं तु कामधेनुकृते कुधीः
अथ पश्यंतु मे वीर्यं त्रयो लोकाः सनातनम्
मत्पिता निहतो येन सत्कर्मनिरतः सदा
इत्युक्त्वा क्रोधरक्ताक्षः कार्त्तवी र्यार्जुनं भुवि
कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनंदनः
रथस्थं पातयामास जघान नृपतिं प्रिये
कृत्वा निःक्षत्रियां चैव भार्गवः स महाबलः
तस्मिन्यज्ञे महादाने दक्षिणां भृगुनंदनः
वारुणांस्तुरगाञ्छुभ्रान्रथं च रथिनां वरः
तदा तस्मिन्महायज्ञे वाजिमेधे महायशाः
एवं किल पुराणेषु सर्वागमभिदादिषु
अश्वमेधेन यज्ञेन ब्रह्महत्या विनश्यति
मया पुनर्नृशंसेन बहवः प्राणिनो हताः
स्त्रियो वृद्धाश्च बालाश्च माता चैव विशेषतः
चिंतयित्वा मुहूर्तं तु गतो रैवतकं गिरिम्
तथापि न गता हत्या ह्यनेकप्राणिसंभवा
सह्ये हिमालये रम्ये पुण्ये बदरिकाश्रमे
यमुनां चंद्रभागां च गंगां त्रिपथगामिनीम्
विशालां कपिलां दुर्गां गंभीरां गोमतीं शिवाम्
गयां चैव कुरुक्षेत्रं नैमिषं पुष्करं तथा
कृतयात्रोऽपि दुःखार्त्तश्चिंतयामास भार्गवः
न गता ब्रह्महत्या मे कृतो धर्मो निरर्थकः यदि स्यात्सत्यमेतच्च नष्टं जातं कथं मम ।। 5.2.29.
एतस्मिन्नेव काले तु नारदो मुनिपुंगवः
विषण्णवदनो दीनश्चिंतयानः पुनःपुनः
भोभो नारद देवर्षे शृणु मे परमं वचः
पितुः पराभवाद्भूमौ भृमिपाला मया हताः
निरंतरा हता लोका विशोकेनादयालुना
यज्ञः कृतोऽश्वमेधश्च दत्तं दानमनेकधा
पर्वतेषु तपस्तप्तं हुतं जप्तं निरंतरम्
परं नैव गता हत्या तस्मात्सर्वं निरर्थकम्