इति स्तुतस्तदा देवि महादेवो महेश्वरः
भस्मचर्चितसर्वांगो भोगिभोगांगदोज्वलः
मुक्तालतानिभाभिस्तु जटाभिर्भूषितो विभुः
भोगींद्रफणबद्धाभिः सितपीतादिभिस्तथा
राजानं प्रत्युवाचेदं वचनं पर्वतात्मजे
जटीभूतं च ते पापं गतं मद्दर्शनेन वै
इत्युक्तो देवदेवेन वीरधन्वा महीपतिः 5.2.28.
कामगेन विमानेन स्तूयमानो गणैः प्रिये
लिंगश्चातः समाख्यातो नाम्ना देवो जटेश्वरः तेषां पापं जटीभूतं तत्क्षणादेव नश्यति
येऽर्चयंति सदा देवि देवदेवं जटेश्वरम्
येप्यन्ये देवगन्धर्वा यक्षराक्षस मानवाः
तेऽपि कामानवाप्स्यन्ति यांश्च कांश्च सुदुर्लभान्
निःसपत्नत्वमतुलं यच्चान्यत्तदवाप्नुयात् तेपि पापविनिर्मुक्ता भविष्यंति गत ज्वराः
जटेश्वरं प्रपश्यंति भक्त्या ये च दिनेदिने
व्याधितो व्याधिना मुक्तो दुःखी दुःखात्प्रमुच्यते
जटेश्वरस्य माहात्म्यं ये पठिष्यंति पार्वति
ते सर्वकामानाप्स्यंति गतिमंते च मत्पुरे 5.2.28.
गुर्विणी लभते पुत्रमरोगं श्रुतिभूषणम्
मांगल्यमिदमायुष्यं धर्मकामाश्रयं महत्
दुर्भुक्तं दुर्जनस्पर्शं यच्चाल्पायुःकरं भवेत्
श्राद्धेषु यः पठेदेतां जटेश्वरकथां शुभाम्
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण मुच्यते ब्रह्महत्यया
पुरा त्रेतायुगे देवि रामः शस्त्रभृतां वरः
रेणुकागर्भसंभूतः स्वयं रामो बभूव ह
स कदाचिन्नियुक्तोऽसौ मुनिना जमदग्निना
स पितुर्वचनं श्रुत्वा भ्रातॄणां मातुरेव च
सर्वेषां पृथिवीशानां त्वमजेयो भविष्यसि
गृहाण परशुं पुत्र वह्निज्वालोद्भवं दृढम्
अथ केनापि कालेन कार्त्तवीर्यार्जुनो नृपः