दानमिज्या तपः शौचं तीर्थसेवा श्रुतिस्तथा
निगृहीतेंद्रियग्रामो यत्रैव वसते नरः
एतत्ते कथितं विप्र मानसं तीर्थलक्षणम्
प्रातरुत्थाय मतिमान्संगमे स्नानमाचरेत्
चक्रतीर्थे नरः स्नात्वा दृष्ट्वा चक्रहरिं विभुम्
एकादश्यामेकादश्यामियं यात्रा शुभावहा 2.8.10.
विधाय नित्यजं कर्म अयोध्यां च विलोकयेत्
बंदीं च शीतलां चैव वटुकं च विलोकयेत्
पिण्डारकं ततो दृष्ट्वा ततो भैरवदर्शनम्
अंगारकचतुर्थ्यां तु पूर्वोक्ता देवता अपि
प्रातरुत्थाय मतिमान्ब्रह्मकुण्डजले प्लुतः
मंत्रेश्वरं ततो दृष्ट्वा महाविद्यां विलोकयेत्
स्वर्गद्वारे नरः स्नात्वा सचैलो विजितेंद्रियः सचैलस्नानतो यांति तस्मात्सचैलमाचरेत्
एषा वै गदिता यात्रा सर्वपापहरा शुभा
य एवं कुरुते यात्रां नित्यं शुभफलप्रदाम्
तस्मात्त्वमपि विप्रेंद्रः अयोध्यां व्रज मा चिरम् 2.8.10.
अयोध्या परमं स्थानमयोध्या परमं महत्
अयोध्या परमं स्थानं विष्णुचक्रे प्रतिष्ठितम्
इत्येतत्कथितं विप्र मया पृष्टं हि यत्त्वया
उवाच मधुरं वाक्यं व्यासः स तपसां निधिः
व्यास उवाच धन्योऽस्म्यनुगृहीतोऽस्मि कृतकृत्योऽस्म्यहं मुने सर्वं च निष्फलं तस्य अयोध्यां नागतो यदि
यस्मिन्मयि प्रसन्नेन त्वयोक्तो धर्मनिर्णयः त्वमपि व्रज विप्रेंद्र स्वमाश्रमपदं निजम्
जगाम तपसां राशिरगस्त्यः कुंभसंभवः
स्वमाश्रमपदं धीरो विस्मयोत्फुल्ललोचनः
अयोध्यामागतो विप्रः सर्वकामार्थसिद्धये
दृष्ट्वा महाश्चर्यकरं कारणं तीर्थमुत्तमम् 2.8.10.
ततो जगाम विप्रेंद्रः स्वमाश्रमपदं मुनिः
मया श्रुत्वा च माहात्म्यं यात्रां कृत्वा विधानतः
इदं माहात्म्यमतुलं यः पठेत्प्रयतो नरः
तस्मादेतत्प्रयत्नेन श्रोतव्यं च जनैः सदा