भोभो राजन्महीपाल वीरधन्वेति विश्रुतः
प्राग्भवे व्याधरूपेण निहिथा विपिने मृगान्
फाल्गुनामलपक्षे त्वामलक्येकादशी शुभा
पूजा लोकैः कृता दृष्टा विस्मयेन त्वया पुरा
तत्प्रभावादभू राजा महाबलपराक्रमः
निहताः शत्रवः सर्वे तयैव शुभमाप्स्यसि
ज्ञाता तपःप्रभावेन मया योगबलेन च 5.2.28.
इदानीं पालयिष्यामि शृणु मे वचनं परम्
इत्युक्तो वामदेवेन् मुनिना स महीपतिः
कथं यास्यंति मे हत्या गोब्राह्मणसमुद्भवाः
तस्य तद्वचनं श्रुत्वा वाम देवो महामुनिः
महाकालवनं गच्छ महाराज ममाज्ञया
पापसंघप्रहर्त्ता च सर्ववेदेषु पठ्यते
तस्य तद्वचनं श्रुत्वा वामदेवस्य पार्थिवः
तत्र दृष्ट्वा जगद्वंद्यं देवदेवं जटेश्वरम्
शिवाय ते नमो नित्यं विश्वकाय नमोनमः
नमो जटाय रामाय माययाक्रांतकारिणे 5.2.28.
नमो भोगाय धूम्राय नमोऽस्तु गगनात्मने
नमो महांधकारार्क नमस्ते शत्रुघातिने नमः कनकवर्णाय नमो मोहितमोहिने
नमः सुरूपाय सुरार्चिताय नमो विरूपाय प्रकृतेः पराय
इति स्तुतस्तदा देवि महादेवो महेश्वरः
भस्मचर्चितसर्वांगो भोगिभोगांगदोज्वलः
मुक्तालतानिभाभिस्तु जटाभिर्भूषितो विभुः
भोगींद्रफणबद्धाभिः सितपीतादिभिस्तथा
राजानं प्रत्युवाचेदं वचनं पर्वतात्मजे
जटीभूतं च ते पापं गतं मद्दर्शनेन वै
इत्युक्तो देवदेवेन वीरधन्वा महीपतिः 5.2.28.
कामगेन विमानेन स्तूयमानो गणैः प्रिये
लिंगश्चातः समाख्यातो नाम्ना देवो जटेश्वरः तेषां पापं जटीभूतं तत्क्षणादेव नश्यति
येऽर्चयंति सदा देवि देवदेवं जटेश्वरम्