व्याघ्रसिंहगजाकीर्णं मृगशंबरसेवितम्
ते गतास्त्वरिता व्याधाः स्वभर्तुः कथनाय वै
तावद्राज्ञः शरीरात्तु श्वेताऽऽभरणभूषिता
दस्यून्निहत्य सा देवी तत्रैवादर्शनं गता
अथ राजा तया मुक्तः प्रतिबुद्धोऽथ तत्क्षणात्
गोवध्या ब्रह्मवध्या च वने ह्यस्मिन्सुदारुणा
एवं स चिंतयित्वाथ निःश्वस्य च पुनःपुनः 5.2.28.
मुनिना वामदेवेन दृष्टो राजा तथाविधः
सोमवंशसमुत्पन्नो दशां कष्टां समागतः
उद्धरिष्यामि राजानमेनं पुरुषसत्तमम् प्रत्युवाच महीपालं वीरधन्वानमातुरम्
भोभो राजन्महीपाल वीरधन्वेति विश्रुतः
प्राग्भवे व्याधरूपेण निहिथा विपिने मृगान्
फाल्गुनामलपक्षे त्वामलक्येकादशी शुभा
पूजा लोकैः कृता दृष्टा विस्मयेन त्वया पुरा
तत्प्रभावादभू राजा महाबलपराक्रमः
निहताः शत्रवः सर्वे तयैव शुभमाप्स्यसि
ज्ञाता तपःप्रभावेन मया योगबलेन च 5.2.28.
इदानीं पालयिष्यामि शृणु मे वचनं परम्
इत्युक्तो वामदेवेन् मुनिना स महीपतिः
कथं यास्यंति मे हत्या गोब्राह्मणसमुद्भवाः
तस्य तद्वचनं श्रुत्वा वाम देवो महामुनिः
महाकालवनं गच्छ महाराज ममाज्ञया
पापसंघप्रहर्त्ता च सर्ववेदेषु पठ्यते
तस्य तद्वचनं श्रुत्वा वामदेवस्य पार्थिवः
तत्र दृष्ट्वा जगद्वंद्यं देवदेवं जटेश्वरम्
शिवाय ते नमो नित्यं विश्वकाय नमोनमः
नमो जटाय रामाय माययाक्रांतकारिणे 5.2.28.
नमो भोगाय धूम्राय नमोऽस्तु गगनात्मने
नमो महांधकारार्क नमस्ते शत्रुघातिने नमः कनकवर्णाय नमो मोहितमोहिने
नमः सुरूपाय सुरार्चिताय नमो विरूपाय प्रकृतेः पराय